रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 385, कुल 520 में से
संदर्भ में पढ़ें340 रत्नावली
राजा—वसुन्धरे ! उच्यतां यौगन्धरायणः—$^1$प्रदर्श्यतां
मत्प्रसादस्य विभव इति ।
वसुन्धरा—जं देवो आणवेदित्ति । (क) (इति विजयवर्मणा सह
निष्क्रान्ता )
( ततः प्रविशति काञ्चनमाला )
काञ्चनमाला—आणत्तम्हि देवीए जह—गच्छ, हंजे
कंचणमाले ! एदं इंदजालिअं अज्जउत्तस्स दंसेहि ।
( परिक्रम्यावलोक्य च ) एसो क्खु भट्टा । ता जाव णं उबसप्पामि ।
( उपसृत्य ) जेदु जेदु भट्टा ! भट्टा ! देवी विष्णवेदि—एसो
क्खु उज्जयिणीदो संबरसिद्धो नाम इंदजालिओ आअदो, ता
पेक्खदु भट्टा । (ख)
राजा—अस्ति नः कौतुकमैन्द्रजालिके । तदेनं शीघ्रं
प्रवेशय ।
काञ्चनमाला—जं भट्टा आणवेदि । (इति निष्क्रम्य पिच्छिका-
हस्तेनैन्द्रजालिकेन सह प्रविशति ) भट्टा ! एसो इंदजालिओ । (ग)
(क) यत् देवः आज्ञापयतीति ।
(ख) आज्ञप्तास्मि देव्या यथा—गच्छ, हञ्जे काञ्चनमाले, एतम् ऐन्द्रजालिकम्
आर्य्यपुत्रस्य दर्शय । एषः खलु भर्त्ता । तद् यावदेनमुपसर्पामि । जयतु जयतु भर्त्ता !
भर्तः, देवी विज्ञापयति एषः खलु उज्जयिन्याः शम्बरसिद्धिः नाम ऐन्द्रजालिकः आगतः ।
तत् प्रेक्षतां भर्त्ता ।
(ग) यद् भर्त्ता आज्ञापयति । भर्तः, एष ऐन्द्रजालिकः ।
श्लाघ्यः प्रशंसनीयः पुरुषकारम् वीरत्वं शौर्य्यमिति यावत् । ज्यायांसमग्रजन्मानम् ।
प्रहारेण व्यथितं सञ्जातव्रणं क्षतताड़नादित्यर्थः । हास्तिकप्रायम् हस्तिनां समूहः हास्तिकं
- दीयतां मत्प्रसादोऽस्येति ।