रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 370, कुल 520 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः 325
¹प्रत्यासत्तिमुपागता नहि तथा देवी रुदत्या यथा
प्रक्षाल्यैव तयैष बाष्पसलिलैः कोपोऽपनीतः स्वयम् ॥१॥
( सोत्कण्ठं निःश्वस्य) तावदिदानीं देव्यां ²प्रसादितायां सागरिका-
चिन्तैव केवलं मां बाधते । कुतः—
अम्भोजगर्भसुकुमारतनुस्तदासौ
कण्ठग्रहे प्रथमरागघने विलीय ।
सद्यः पतन्मदनमार्गणरन्ध्रमार्गे-
र्मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥२॥
( विचिन्त्य ) योऽपि मे विश्रामस्थानं वसन्तकः, सोऽपि देव्या
संयतः³ । तत् कस्याग्रतो बाष्पमोक्षं करिष्ये ? ( इति निःश्वसिति )
( ततः प्रविशति वसन्तकः )
वसन्तकः—( ⁴परिक्रम्यावलोक्य च सविषादम् ) एसो क्खु ⁵णिब्भरो-
क्कंठापरिक्खामंपि, तणुं सलाहणिज्जलावण्णं समुव्वहंतो उदिदो
दुदिआचंदो विअ अहिअदरं सोहदि पिअवअस्सो ! ता जाव
णं उवसप्पामि । ( उपसृत्य ) सोत्थि भवदे ! भो दिट्ठिआ ⁶वड्ढसे !
देवीहत्थगदेनापि मए पुणोवि एदेहिं अच्छीहिं जं
दिट्ठोसि । (क)
(क) एष खलु निर्भरौत्कण्ठापरिम्लामपि श्लाघनीयलावण्यां तनुं समुद्वहन्
उदितो द्वितीयाचन्द्रः इव अधिकतरं शोभते प्रियवयस्यः । तद् यावद् एनम् ( ननु )
उपसर्पामि । स्वस्ति भवते । भो दिष्ट्या वर्द्धसे !—देवीहस्तगतेनापि मया पुनरपि
एताभ्याम् अक्षिभ्यां यद् दृष्टोऽसि । भो वयस्य, देव्या अनुगृहीतोऽसि ।
- प्रत्यापत्तिम् । 2. प्रसन्नायाम् । 3. संयतस्तिष्ठति । 4. राजानं दृष्ट्वा ।
- निरंतरक्कंठा । 6. दिट्ठिहि ।