रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 312, कुल 520 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः २६७
विदूषकः भो ! किं मूढो विअ चिट्ठसि ? चिंतेहि एत्थ
पडिआरं । (क)
राजा - वयस्य ! तदेव चिन्तयामि । देवीप्रसादं मुक्त्वा
नान्यमुपायं पश्यामि । तदेहि । तत्रैव गच्छावः ।
( इति परिक्रामतः )
सागरिका— ( आत्म विमृश्य ) बरं दाणिं सअं ज्जेब्ब अत्ताणअं
उब्बंधिअ उबरदा भविस्सं, जेण ण उण जाणिदसङ्केदबुत्तं-
ताए देवीए सुसंगदा विअ परिभूदह्नि । ता जाब अहं असोअ-
पादवतले गदुअ जधामौहिदं करिस्सं । (ख)
( इति परिक्रामति )
विदूषकः ( आकर्ण्य ) चिट्ठ दाब, चिट्ठ¹ । णं पदसद्दो सुणी-
यदि । जाणामि कदाबि गहिदपच्छादावा पुणोबि देवी आगदा
भवे । (ग)
राजा- वयस्य ! महानुभावा खलु देवी । कदाचिदेव-
मपि स्यात् । • तत्त्वरितं निरूपय² ।
विदूषकः--जं भवं आणवेदि । (घ)
( इति निष्क्रामति )
(क) भोः, किं मूढ इव तिष्ठसि, चिन्तय अत्र प्रतीकारम् ।
(ख) वरमिदानीं स्वयमेव आत्मानम् उद्धध्य उपरता भविष्यामि, येन न पुनः
ज्ञातसङ्केतवृत्तान्तया देव्या सुसङ्गता इव परिभूतास्मि । तद् यावदहम् अशोकपादपतलं
गत्वा यथासमीहितं करिष्यामि ।
(ग) तिष्ठ तावत्, तिष्ठ । ननु पदशब्दः श्रूयते । जानामि, कदापि गृहीत-
पश्चात्तापा पुनरपि देवी आगता भवेत् ।
(घ) यद् भवान् आज्ञापयति ।
- चिट्ठ भो । 2. निरूप्यताम् ।