रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 265, कुल 520 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः
( ततः प्रविशति मदनिका )
मदनिका—( आकाशे ) कोसंबिए¹ ! अवि दिट्ठा तुए भट्ठिणो²
सआसे कंचणमाला ण वेत्ति ? ( कर्णं दत्त्वाकर्ण्य³ ) किं भणासि—
कोवि कालो ताए आगच्छिअ गदाएत्ति ? ता कहिं दाणिं
पेक्खिस्सं ? ( अग्रतोऽवलोक्य ) कहं एसा क्खु कंचणमाला इदो
ज्जेव्व आगच्छदि ! ता जाव णं उवसप्पामि । (क)
( ततः प्रविशति काञ्चनमाला )
काञ्चनमाला—( सोपहासम् ) साहु रे बसंतअ साहु ! अदि-
सदो तुए अमच्चजोगंधराअणो वि इमाए संधिविग्गह-
चिंताए । (ख)
मदनिका—( सस्मितमुपसृत्य ) हला कंचणमाले ! किं अज्ज-
वसंतएण किदं जेण सो एव्वं सलाहीअदि ? (ग)
(क) कौशाम्बिके, अपि दृष्टा त्वया भर्तुः ( भर्त्रा ) सकाशे काञ्चनमाला न वा इति ?
किं भणसि—कोऽपि कालः तस्याः आगत्य गतायाः इति ? तत् कुत्र इदानीं प्रेक्षिष्ये ?
कथमेषा खलु काञ्चनमाला इत एव आगच्छति ! तद् यावत् ननु ( एनाम् )
उपसर्पामि ।
(ख) साधु रे, वसन्तक, साधु ! अतिशयितः त्वया अमात्ययौगन्धरायणोऽपि अनया
संधिविग्रहचिन्तया ।
(ग) हला काञ्चनमाले, किमार्थ ( अद्य ) वसन्तकेन कृतं येन स एवं श्लाघ्यते ?
- कौसंबिए, कीसंबिए ! 2. भट्टिणीसआसे । 3. कर्णं दत्त्वा ।