रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 233, कुल 520 में से
संदर्भ में पढ़ें188 रत्नावली
राजा—तदेहि । देवीं प्रसादयितुमभ्यन्तरमेव प्रवि-
शावः ।
[ इति निष्क्रान्तौ¹ ]
इति कदलीगृहं नाम द्वितीयोऽङ्कः
क्षेमेण सुखेन । अकालवातावली अकाले अनुचितकाले वातावली वातानां वायूनाम्
आबली समूहः झम्पा इति यावत् । यथा अकालवातावली मेघादिसंयुक्ता सहसा
चागम्य ध्वंसादिकं विधाय गच्छति तथैयं वासवदत्ता हठाद् चागम्य कोपादिकं कृत्वा
गतेत्यर्थः । भ्रूभङ्ग इति । सहसा उद्गतेऽपि समुद्गतेऽपि भ्रूभङ्गे भ्रुकुटौ दयितया
प्रियया वासवदत्तया स्वामिनं प्रति भ्रुकुटिप्रदर्शनं परिजनसमक्षे अनुचितमिति बुद्ध्या
भ्रुकुटिगोपनार्थं वदनं परां नम्रतां नीतम् । अनेन वासवदत्तायाः आभिजात्यं
सूच्यते । मां प्रति भेदकारि भेदं द्वैधं करोतीति हृदयस्पर्शि ईषत् हसितम् । साभि-
प्रायेणार्द्धसनेनास्याः सामर्षोभिप्रायो लक्षितः । निष्ठुरं वचः न उक्तम् । आभिजात्यादिति
भावः । अन्तः मध्ये बाष्पजड़ीकृतं बाष्पैः अश्रुभिः जड़ीकृतं जलीकृतं व्याप्तमिति यावत् ।
चक्षुः प्रभुतया क्रोधदमनसामर्थ्येन न विस्तारितं विकासितम् । कौपः प्रकटीकृतः प्रकाशितः
किन्तु प्रश्रयः न मुक्तः नम्रत्वं न परित्यक्तम् ॥२१॥ शार्दूलविक्रीड़ितम् । चरण्यक्रदितं
चरणे रोदनमिव हृष्टेत्यर्थः ।
Prose order.—सहसा उद्गतेऽपि भ्रूभङ्गे दयितया वदनं परां नम्रतां नीतम् ;
मां प्रति भेदकारि ईषत् हसितं ; निष्ठुरं वचः नोक्तम् ; प्रभुतया अन्तर्बाष्पजड़ीकृतं
चक्षुः न विस्तारितम् ; कोपय्च प्रकटीकृतः प्रश्रयश्च न मुक्तः ॥ २१ ॥
Beng. Trans. হে বয়স্য, ভাগ্যক্রমে আপনি উন্নতি লাভ করিতেছেন ( অর্থাৎ
আপনার ভাগ্য ভাল—খুব বাঁচিয়া গিয়াছেন)। অকাল-ঝঞ্ঝার ন্যায় বাসবদত্তা ভালয়
ভালয় চলিয়া গিয়াছেন।
রাজা—দূর মূর্খ! এইরূপ পরিতোষে কোন লাভ নাই। দেবী যখন চলিয়া গেলেন
তাঁহার নিগূঢ় (রুদ্ধ) ক্রোধবেগ তুমি লক্ষ্য কর নাই। দেখ—
1 इति निष्क्रान्ताः सर्व्वे ।