सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 229, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 229

184 रत्नावली
न मे दोषोऽस्तीति त्वमिदमपि च ज्ञास्यसि मृषा
किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे ॥ २० ॥
वासवदत्ता—( सवियं पटाञ्चलमाकर्षन्ती ) अज्जउत्त ! मा अण्णथा
संभावेहि । सच्चं मं सीसवेदना बाहेदि¹ । ता गमिस्सं । (क)
( इति निष्क्रान्ता )
(क) आर्यपुत्र, मा अन्यथा संभावय । सत्यं मां शीर्षवेदना बाधते । तत्
गमिष्यामि ।
सवैलक्ष्यम् विलक्षस्य विजितस्य विमूढस्य लज्जितस्य वा भावो वैलक्ष्यम् इति ष्यञ्-
प्रत्ययः । तेन सह विद्यमानं यथा स्यात् तथा “विलक्षो विस्मयान्विते” इत्यमरः । आकृत्या
आकृत्याः आकृतिरित्यर्थः । विज्ञाणम् आलिख्यानैपुण्यम् । ब्रह्मसूत्रेण यज्ञोपवीतेन ।
घुणाक्षरम् घुणः घुणाख्यः कीटविशेषः जातिस्वभावात् काष्ठं बिलिखन् काकतालीयन्यायेन