रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 223, कुल 520 में से
संदर्भ में पढ़ें178 रत्नावली
तक्केमि भट्टिणीं एव्व पडिवालअंतो चिट्ठदित्ति । ता उवसप्पदु
भट्टिणी । (क)
वासवदत्ता ( उपसृत्य ) जअदु जअदु अज्जउत्तो । (ख)
विदूषकः—( कक्षायां फलकं निक्षिप्य उत्तरीयॆण प्रच्छादयति ) एसा
क्खु देवी आगदा¹ । (ग)
राजा—( अपवार्य्य ) वयस्य ! प्रच्छादय चित्रफलकम्² । देवि !
स्वागतम् ! इहास्यताम्³ ।
वासवदत्ता—( उपविश्य ) अज्जउत्त ! अध सच्चं ज्जेव्व
कुसुमिदा णोमालिआ ? (घ)
राजा—( सस्मितम् ) प्रथममागतैरस्माभिश्च चिरयसीति न सा
दृष्टा । तदेहि । समेतावेव⁴ तां पश्यावः ।
वासवदत्ता—( निर्वर्ण्य ) अज्जउत्त-मुहाणुराआदो ज्जेव्व मए
जाणिदं जहा कुसुमिदा णोमालिआत्ति । ता⁵ गमिस्सं । (ङ)
(क) भवि', यथा समीपे भर्त्ता भज्यते, तथा तर्कयामि भर्त्रीमेव प्रतिपालयन्
तिष्ठति । तद् उपसर्पतु भर्त्री ।
(ख) जयति जयति आर्य्यपुत्रः !
(ग) एषा खलु देवी आगता ।
(घ) आर्य्यपुत्र, अथ सत्यमिव कुसुमिता नवमालिका ?
(ङ) आर्य्यपुत्रमुखानुरागात् एव मया ज्ञातं यथा कुसुमिता नवमालिका इति ।
तद् गमिष्यामि ?
1 पुस्तकान्तरे नास्ति । 2 विदूषको गृहीत्वा कक्षे निक्षिपति । 3 पुस्तकान्तरे
नास्ति । 4 सहितावेव । 5 ता अ ।