रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 222, कुल 520 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः 177
second Queen Vāsavadattā on account of the long continuance
of her angry temper.
राजा—
प्राप्ता कथमपि दैवात् कण्ठमनीतैव¹ सा प्रकटरागा ।
रत्नावलीव कान्ता मम हस्ताद् भ्रंशिता भवता ॥१८॥
(ततः प्रविशति वासवदत्ता काञ्चनमाला च)
वासवदत्ता—हञ्जे कंचणमाले ! अध केत्तिअ दूरे दाणिं
सा अज्जउत्तेण परिगहिदा णोमालिआ ? (क)
काञ्चनमाला—एदं कअलीघरं अदिक्कमिअ दीसदि । (ख)
वासवदत्ता—तेण हि आदेसेहि मग्गं । तत्थ ज्जेब्ब²
गच्छह्म । (ग)
काञ्चनमाला—ता एदु एदु भट्टिणी । (घ)
• (इति परिक्रामतः)
राजा—क्वे दानीं प्रियतमा³द्रष्टव्या ?
काञ्चनमाला—भट्टिणि ! जह समीवे भट्टा मंतेदि, तह
(क) हञ्जे काञ्चनमाले, अथ कियद्दूरे इदानीं सा आर्यपुत्रेण परिगृहीता
नवमालिका ?
(ख) एतत् कदलीगृहमतिक्रम्य दृश्यते ।
(ग) तेन हि आदिशय मार्गम् । तत्र एव गच्छावः ।
(घ) तद् एतु एतु भर्त्री !
1 चनीतैव । 2 तेण तहिं ज्जेब्ब । 3 प्रिया ।
12