सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 209, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 209

164 रत्नावलो .
आलाबाणं । ता अन्नदो गमिस्सं । ( इति गन्तुमिच्छति ) (क)
सुसङ्गता—अइ असहणे ! इह दाब मुहुत्तअं चिट्ठ, जाब
इमादो कदलीघरादो चित्तफलअं गेण्हिअ आगच्छामि । (ख)
सागरिका—सहि ! एव्वं करेहि । (ग)
सुसङ्गता—एव्वं करेह्मि । (घ)
( सुसङ्गता कदलीगृहाभिमुखं परिक्रामति )
विदूषकः ( सुसङ्गतां दृष्ट्वा ससम्भ्रमम् ) भो वयस्स ! पच्छादेहि
एदं चित्तफलअं इमिणा कदलीपत्तेण । एसा क्खु देवीए
परिचारिआ सुसंगदा आगदा । (ङ)
( राजा पटान्तेन फलकमाच्छादयति )
सुसङ्गता—( उपसृत्य ) जयदु जयदु भट्टा । (च)
राजा—सुसङ्गते ! स्वागतम् । इहोपविश्यताम् ।
( सुसङ्गता उपविशति )
राजा—कथमिहस्थोऽहं भवत्या ज्ञातः ? ‘
सुसङ्गता—( विहस्य ) ण केवलं देवो, चित्तफलएण सह
(क) अयि, निपुणा खलु त्वमपि ईदृशानामालापानाम् ! तद् अन्यतः गमिष्यामि ।
(ख) अयि असहने, इह तावत् मुहूर्त्तं तिष्ठ, यावद् अस्मात् कदलीगृहात् चित्र-
फलकं गृहीत्वा आगच्छामि ।
(ग) सखि, एवं कुरु ।
(घ) एवं करोमि ।
(ङ) भो वयस्य, प्रच्छादय एतत् चित्रफलकम् अनेन कदलीपर्णेन । एषा खलु
देव्याः परिचारिका सुसङ्गता आगता ।
(च) जयति जयति भर्त्ता !
1 अइ अणिउणा क्खु तुए इंदिसाणं आलाबाणं ; अउसलक्खि तुह इंदिसाणं
etc. 2 पुस्तकान्तरे नास्ति ।