सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 204, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 204

द्वितीयोऽङ्कः 159
अतिशय^1परितापम्नापिताङ्गा^2 यथास्याः
स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ॥ १४ ॥
विदूषकः—( नाट्येन मृणालिकां गृहीत्वा ) भो वयस्स ! अअं क्खु
उबलद्धो^3 अवरो ताए ज्जेव्व पीणत्थणजोग्गो^4 किलिसंतकोमल-
मुणालहारो, ता पेक्खदु भवं । (क)
राजा—( गृहीत्वोरसि विन्यस्य सोपालम्भम् ) अयि जडप्रकृते !
परिस्रुतस्तत्कुचकुम्भमध्यात्
किं शोषमायासि मृणालहार ?
न सूक्ष्मतन्तोरपि तावकस्य
तत्रावकाशो भवतः किमु^5 स्यात् ? ॥ १५ ॥
सुसङ्गता—( आत्मगतम् ) हद्धी हद्धी ! गुरुआणुराअक्खित्त-
हिअओ भट्ठा असंबद्धं वि मंतिदुं पउत्तो ! ता अदो अवरं
उण ण जुत्तं छबेक्किदुं^6 दाव । ( प्रकाशम् ) सहि ! जस्स किदे
तुमं आगदा, सो अअं दे पुरदो चिट्ठदि । (ख)
(क) भो वयस्य, अयं खलु उपलब्धः अपरः तस्या एव पीनस्तनयोग्यः क्लिश्यत्-
कोमलमृणालहारः, तत् प्रेक्षतां भवान् ।
(ख) हा धिक् ! हा धिक् ! गुरुकानुरागक्षिप्तहृदयः भर्त्ता असम्बद्धमपि मन्त्रयितुं
प्रवृत्तः । तत् अतोऽपरं (अतः परं) पुनर्न युक्तमुपेक्षितुं तावत् । सखि, यस्य कृते
त्वमागता सोऽयं ते पुरतः तिष्ठति ।
बहुमानः आदरः । भातीति । बाष्पाणां नेत्रजलानां शीकरकणाः जलकणाः
1 अतिगुरु । 2 म्नापिताभ्यां । 3 अअं चवरी ताए ; उभअदो । 4 इदं ;
वल्लभा । 5 कथम् । 6 अबेक्खिदुं, भोदु एव्वं दाव ।