रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 203, कुल 520 में से
संदर्भ में पढ़ें158 रत्नावलो
of self-confidence in you—the covetable union with whom is thus
highly thought of by even such ( beautiful ) girls —that you are
not noticing your own self drawn here in this picture by her ?
राजा ( निर्वर्ण्य ) अनया लिखितोऽहमिति यत् सत्यमात्मन्येव
बहुमानः, तत् कथं न पश्यामि ? पश्य—
भाति पतितो लिखन्त्यास्तस्या बाष्पाम्बुशीकरकणौघः ।
खेदोद्गम इव करतलसंस्पर्शादेष¹ मे वपुषि ॥ १२ ॥
सुसङ्गता—सहि ! तुमं' ज्जेब्ब एका सिलाहणीया जाए
भट्टावि एब्बं मंतीअदि² । (क)
विदूषकः ( पार्श्वतोऽवलोक्य ) भो वयस्स ! एदं खु ताए सरस-
कमलिणीदलमुणालविरइदं मदणावस्थासूअअं सअणीअअं
लक्खीअदि । (ख)
राजा—निपुणमुपलक्षितम् । तथाहि—
परिम्लानं पीनस्तनजघनसाङ्गादुभयत-
स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः सन्तापं वदति नलिनीपत्रशयनम् ॥ १३ ॥
अपिच---
स्थितमुरसि विशालं पद्मिनीपत्रमेतत्
कथयति न तथाऽन्तर्मन्मथोत्थामवस्थाम् ।
(क) सखि, त्वमेव एका श्लाघनीया यया भर्त्तापि एवं मन्त्र्यते ।
(ख) भो वयस्य, एतत् खलु तस्याः सरसकमलिनीदलसृणालविरचितं मदनावस्था-
सूचकं शयनीयं लक्ष्यते ।
1 देव। 2 तुमं' जेब्ब धणा सिलाहणीया य जाए भट्टा एब्बं संतीसीअदि ।