रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 199, कुल 520 में से
संदर्भ में पढ़ें154 रत्नावली
वसन्तकः—( राजानं चालयित्वा ) णं भणामि—कीस एसा
ओणदमुही आलिहिदा ? (क)
राजा—वयस्य ! सारिकयैव सकलमावेदितम् ।
सुसङ्गता—( विहस्य ) सहि ! दंसिदं सारिआए अत्तणो मेहा-
बित्तणं । (ख)
वसन्तकः—अवि सुहायदि दे लोअणं ण वेत्ति ? (ग)
सागरिका—( स्वगतम् ) किं एसो भणिस्सदित्ति । सच्चं
ज्जेव्व मरणजीविदाणं अन्तरे वट्टामि । (घ)
राजा—सुखयतीति किमुच्यते !—
कृच्छ्रादूरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले
मध्ये स्यास्त्रिवलीतरङ्गविषमे निष्पन्दतामागता ।
मद्दृष्टिस्तृषितेव सम्प्रति शनैरारुह्य तुङ्गौ स्तनौ
साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥११॥
सागरिका—( श्रुत्वा—स्वगतम्) हिअअ, पसीद पसीद ! समस्सस
समस्सस ! मणोरहोवि दे दाणिं एत्तिअं भूमिं गदो । (ङ)
(क) ननु भणामि । कस्यादिय मवनतमुखी चालिखिता ?
(ख) सखि, दर्शितं सारिकया चात्मनो मेधावित्वम् ।
(ग) अपि सुखयति ते लोचनं न वा इति ?
(घ) किमेष भणिष्यतीति । सत्यमेव मरणजीवितयोः अन्तरे वर्ते ।
(ङ) हृदय, प्रसीद प्रसीद ! समाश्वसिहि समाश्वसिहि ! मनोरथोऽपि ते इदानीं
एतावतीं भूमिं गतः ।
1 ससाध्वसम् ।