सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 179, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 179

134 रत्नावली
( ऊर्ध्वं निरूप्य निपुणमवलोक्य 1 ) कथं सारिका 2 !
वसन्तकः—( विचार्य 3 ) कथं सच्चं ज्जेब्ब सारिआ ? (क)
राजा—( सस्मितम् ) वयस्य ! एवम् ।
वसन्तकः—भो वयस्स ! तुमं भयालुओ 4, जेण सारिअ'
भूदेति मंतेसि । (ख)
राजा—धिङ् मूर्ख ! यदात्मना कृतं तन्मयि सम्भावयसि !
वसन्तकः—भो ! जइ एवं मा क्खु मं णिवारेसि (दण्डकाष्ठमुद्यम्य)
आ दासीए धीए ! तुमं जानासि सच्चं ज्जेब्ब वसंतओ
भाइत्ति । ता चिट्ठ चिट्ठ दाब मुहुत्तं जाब इमिणा पिसुणजण-
हिअअकुहिलेण दण्डकट्ठेण परिपक्कं विअ कइत्थफलं इमादो
बउलपादबादो आहाणिअ भूमिए पाडइस्सं । (ग)
राजा—(निवारयन्) मूर्ख ! किमप्येषा रमणीयं व्याहरति । तत्
किमिमां त्रासयसि । शृणुवस्तावत् ।
( उभौ आकर्णयतः )
(क) कथं सत्यमेव सारिका !
(ख) भोः वयस्य ! त्वं भयालुकः, येन सारिकां भूत इति मन्यसे ।
(ग) भोः यद्येवं, मा खलु मां निवारय । आः दास्याः पुत्रि ! त्वं जानासि
सत्यमेव वसन्तको बिभेतीति । तत्तिष्ठ तिष्ठ तावत् मुहूर्तं यावदनेन पिशुनजनहृदयकुटिलेन
दण्डकाष्ठेन परिपक्वम् इव कपित्थफलं अस्मात् वकुलपादपात् आहत्य भूमौ पातयिष्यामि ।
अचिन्त्यः चिन्ताया अगोचरः । कण्ठे इति । समरे देवासुरयुद्धे पुरुषोत्तमस्य विष्णोः
घरमतीतलाद् अभ्यक्तत्वाच्च, कण्ठे गलदेशे विराजमानं मणिं कौस्तुभाख्यं समुद्रमन्थने प्राप्तं
दृष्ट्वा शत्रुभिः दैत्यैः नष्टं विनष्टम् । मन्त्रवरैः मन्त्रश्रेष्ठैः वसुधामूले पाताले भुजङ्गाः हृताः
1 क्षितं ज्ञात्वा । 2 सारिकैवेयम् । 3 ऊर्ध्वं निरूप्य । 4 पुस्तकान्तरे नास्ति ।

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक) · पृष्ठ 179, कुल 520 में से · SarvaKosh