रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 178, कुल 520 में से
संदर्भ में पढ़ेंद्वितोयोऽङ्कः 133
तदादेशय मार्गं, येन वयमद्य¹ तदवलोकनेन चक्षुषः फल-
मनुभवामः ।
वसन्तकः—( साटोपम् ) एदु एदु भवं । (क)
राजा—गच्छाग्रतः ।
( उभौ सगर्व्वं परिक्रामतः )
वसन्तकः—( आकर्ण्य सभयं निवृत्य ²राजानं हस्ते गृहीत्वा ससम्भ्र॒मम् ) भो
वयस्स ! एहि पलाअम्हा । (ख)
राजा—किमर्थम् ?
वसन्तकः—भो ! एदस्सिं बउलपादवे कोबि भूदो पड़ि-
बसदि । (ग)
राजा—धिक् मूर्ख ! विश्रब्धं गम्यताम् । कुत ईदृशानामत्र
प्रभावः³ ?
वसन्तकः—˙फुडक्खरं ज्जेव्व मंतेदि । जइ मम वअणं
ण पत्तिआअसि, ता अग्गदो भविअ सअं ज्जेव्व आकण्णेहि । (घ)
राजा—( तथा कृत्वा श्रुत्वा च )
स्पष्टाक्षरमिदं यत्स्यान्मधुरं⁵ स्त्रीस्वभावतः ।
अल्पाङ्गत्वादनिह्रादि मन्ये वदति सारिका ॥६॥
(क) एतु एतु भवान् । (ख) भो वयस्य, एहि पलायावहे ।
(ग) भोः ! एतस्मिन् बकुलपादपे कोऽपि भूतः प्रतिवसति ।
(घ) स्फुटाक्षरमेव मन्त्रयते । यदि मम वचनं न प्रत्याययसि (प्रत्येषि), तद् अग्रतो
भूत्वा स्वयमेवाकर्णय ।
1 वयमपि । 2 परावृत्य । 3 सम्भवः । 4 भो एसो क्खु,... । 5 तावन्मधुरं ।