सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 171, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 171

126 रत्नावलो
सुसङ्गता—अइ सुत्थिदे ! किं अज्जवि चित्तफलएण
करिस्ससि ? एसोवि दहिभत्तलम्पडो एतं¹ पञ्जरं उग्घाडिअ
दुट्ठवाणरो अदिकंतो² । ³एसा क्खु मेहाविणी उड्डोणा
अण्णदो गच्छदि । ता एहि । लहुं अणुसरेम्ह । इमस्स आलावस्स
गहिदक्खरा कस्सवि पुरदो मंतइस्सदि । (क)
सागरिका—सहि एव्वं करेम्ह । (ख)
( इति परिक्रामतः )
( नेपथ्ये )
ही ही ! अच्छेरिअं अच्छेरिअं ! (ग)
सागरिका—( विलोक्य ) सुसंगदे ! जाणीअदि कहं पुणो दुट्ठ-
वाणरो ज्जेव्व आगच्छदि ! (घ)
सुसङ्गता—(दृष्ट्वा विहस्य) अइ काअरे ! मा भेहि ! भट्टिणो
पस्सवत्तो⁴ क्खु एसो अज्जवसन्तओ । (ङ)
( ततः प्रविशति वसन्तकः )
वसन्तकः—ही ही भो ! अच्छेरिअं अच्छेरिअं ! साहु रे
सिरिखंडदास धम्मिअ, साहु ! (च)
(क) अयि सुस्थिते ! किम् अद्यापि चित्रफलकेन करिष्यसि ? एषोऽपि दधिभक्त-
लम्पटः एतत् पञ्जरम् उद्घाट्य दुष्टवानरोऽतिक्रान्तः । एषा खलु मेधाविनी उड्डीना
अन्यतः गच्छति । तदेहि लघु अनुसरावः । अस्य आलापस्य गृहीताक्षरा कस्यापि पुरतो
मन्त्रयिष्यते ।
(ख) सखि, एवं कुर्वः ।
(ग) ही ही ! आश्चर्यम् आश्चर्यम् ! (घ) सुसङ्गते, ज्ञायते कथं पुनः दुष्टवानरः
एव आगच्छति । (ङ) अयि कातरे, न बिभीहि, भर्तुः पार्श्ववर्ती खलु एषः आर्य-
वसन्तकः । (च) ही ही भोः ! आश्चर्यम् आश्चर्यम् ! साधु रे श्रीखण्डदास धार्मिक, साधु !
1 सारिआपञ्जरं । 2 अपक्कंतो । 3 मेहाविणी । 4 पासवत्ती ।