सामग्री पर जाएँ
सर्वकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 169, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 169

124 रत्नावली
प्रविशति ह्रस्वत्वात् । पर्य्यन्ताश्रयिभिः पर्यन्तेषु प्रान्तभूमिषु आश्रयणमणं कुर्व्वद्भिः भया-
दित्यर्थः । किरातैः किरं पर्य्यन्तभूमिम् अतन्ति निरन्तरं गच्छन्ति इति किर — अत् + कर्त्तरि
अण् इति किराताः तैः । नाम्नः सदृशं याथार्थ्यं कृतं प्रान्तभूमिपर्य्यटनशीलास्ते साम्प्रतं
प्रान्तभूमिमेवामाश्रयन्ते इति तैः स्वनामव्युत्पत्तेः याथार्थ्यं सम्पादितम् । आत्मावलोकनशङ्किनः
यथा ते वानरेण दृष्टाः न स्युरिति । कुब्जाः नीचतयैव अधः स्थित्या एव शनकैः मन्दं यान्ति ।
शार्दूलविक्रीड़ितं वृत्तम् । स्वभावोक्तिरत्रालङ्कारः ॥ ३ ॥ एतम् वानरम् अतिवाह्यावः
यापयावः ।
Prose. कण्ठे कृत्तावशिष्टं कनकमयं शृङ्खलादाम अधः कर्षन् हेलाचलचरण-
रणत्किङ्किणीचक्रवालः अश्वपालैः सम्भ्रमात् अनुसृतसरणिः अङ्गनानां दत्तातङ्कः अयं
प्लवङ्गः नृपतेः मन्दुरायाः प्रभ्रष्टः (सन्) द्वाराणि क्रान्त्वा मन्दिरं प्रविशति ॥२॥
मनुष्यगणनाभावात् त्रपाम् अपास्य वर्ष