रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 102, कुल 520 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः 57
मे भविस्ससि । (इति प्रणमति) अच्छरिअं अच्छरिअं । दिट्ठोवि
पुणो पेक्खिदव्वो । ता जाव ण कोबि मं पेक्खदि दाव च्चेव्व
गमिस्सं । (इति कतिचित् पदानि गच्छति) । (क)
काञ्चन—अज्ज वसन्तअ ! एहि संपदं तुमंपि सोत्थिवाअणं
पड़िच्छेहि । (ख)
( विदूषकः उपसर्पति )
वासव—( विलेपनकुसुमाभरणदानपूर्वकम् ) अज्ज ! सोत्थिवाअणं
पड़िच्छ (इत्यर्पयति) (ग) ।
विदूषक—(सहर्षं गृहीत्वा) सोत्थि भोदीए । (घ)
(क) हा धिक् हा धिक् ! कथं कुसुमलोभोत्क्षिप्तहृदयया अतिचिरं एव मया
कृतम् । तद् अनेन सिन्दुवारविटपेन अपाहतशरीरा भूत्वा प्रेक्षे । कथं प्रेक्षित
एव अपूर्व्वः कुसुमायुधः । अस्माकं तातस्य अन्तःपुरे चित्रगतः वर्ण्यते । इह प्रत्यक्षीकृतः,
तदहमपि एभिः कुसुमैः इह स्थिता एव भगवन्तं कुसुमायुधं पूजयिष्यामि । नमस्ते
भगवन् कुसुमायुध, शुभदर्शनो मे भविष्यसि । दृष्टं यद् द्रष्टव्यम् । अमोघदर्शनो मे
भविष्यसि । आश्चर्य्यं आश्चर्य्यं ! दृष्टोऽपि पुनः प्रेक्षितव्यः । तद् यावत् न कोऽपि
मां प्रेक्षते तावदेव गमिष्यामि ।
(ख) आर्य्य वसन्तक, एहि साम्प्रतं त्वमपि स्वस्तिवाचनं प्रतीच्छ ।
(ग) आर्य्य, स्वस्तिवाचनं प्रतीच्छ ।
(घ) स्वस्ति भवत्यै ।
हा धिगिति । कुसुमलोभेन उत्क्षिप्तम् अपवाहितं हृदयं यस्याः तया । शुभदर्शनः
कल्याणदर्शनः, अमोघदर्शनः सफलदर्शनः, एतेन वत्सराजं प्रति सागरिकायाः
अनुरागातिशयः व्यज्यते । स्वस्तिवाचनम् स्वस्ति कल्याणाय वाचनं ‘स्वस्ति स्यान् मङ्गले पुण्ये’
इति मेदिनी । आर्य्य इति विदूषकस्य ब्राह्मणत्वे तमुद्दिश्य उक्तिः ‘आर्येति ब्राह्मणं ब्रूयात्’
—भरतः