रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 571, कुल 584 में से
संदर्भ में पढ़ेंभाषाटीकासहित । ( ५४६ )
अतिशय पराक्रमी हो जाता है । पुत्रकी इच्छा करनेवाली स्त्रियोंके
उत्तम पुत्र उत्पन्न होते हैं । इस औषधिके गुण महादेवके सिवाय
अन्य कोई नहीं जान सकता है ॥ ९०-९८ ॥
बृहच्छृङ्गाराभ्र ।
पारदं गन्धकञ्चैव टङ्कणं नागकेशरम् ।
कर्पूरं जातिकोषञ्च लवङ्गं तेजपत्रकम् ॥ ९९ ॥
एतेषां कर्षभागानि सुवर्णं तत्समं भवेत् ।
शुद्धकृष्णाभ्रचूर्णञ्च चतुष्कं पिचुभागिकम् ॥१००॥
तालीशं घनकुष्ठञ्च मांसी पुष्पवरांगकम् ।
एलाबीजं त्रिकटुकं त्रिफला कारिपिप्पली ॥ १ ॥
एषां कर्षद्वयञ्चैव पिप्पलीक्वाथभावितम् ।
अनुपानं प्रयोक्तव्यं चोचं क्षौद्रसमायुतम् ॥ २ ॥
नानारोगप्रशमनं विशेषात्कासरोगनुत् ।
वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम् ॥ ३ ॥
हृच्छूलं पार्श्वशूलञ्च शिरःशूलं विशेषतः ।
स्वरामयं क्षयं कुष्ठं श्लेष्माणं वातशोणितम् ॥ ४ ॥
बृहच्छृङ्गाराभ्रनाम विष्णुना परिकीर्त्तितम् ।
रक्तपित्तञ्च कासञ्च नाशयेन्नात्र संशयः ॥१०५॥
इति श्रीगोपालकृष्णसूरिप्रणीते रसेन्द्रसारसंग्रहे रसायना-
धिकारो वाजीकरणाध्यायश्च समाप्तः ।