रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 531, कुल 584 में से
संदर्भ में पढ़ेंभाषाटीकासहित । ( ५०५ )
अथ नेत्ररोगचिकित्सा ।
नेत्राशनि रस ।
अभ्रं ताम्रं तथा लौहं माक्षिकञ्च रसाञ्जनम् ।
पातनायन्त्रसंशुद्धं गन्धकं नवनीतकम् ॥ १ ॥
पलप्रमाणं प्रत्येकं गृह्णीयाच्च विधानवित् ।
सर्वमेकीकृतं चूर्णं वैद्यैः कुशलकर्मभिः ॥ २ ॥
ततस्तु भावना कार्या त्रिफलाभृङ्गराजकैः ।
ततः प्रक्षेपचूर्णञ्च पिप्पलीमूलयष्टिका ॥ ३ ॥
एला पुनर्नवा दारु पाठा भृङ्गः शटी वचा ।
नीलोत्पलं चन्दनञ्च श्लक्ष्णचूर्णञ्च दापयेत् ॥ ४ ॥
माषमेकं प्रदातव्यं घृतश्रीमधुमर्दितम् ।
मर्दनं लौहदण्डेन पात्रे लौहमये दृढे ॥ ५ ॥
अनुपानं प्रयोक्तव्यमुष्णेन वारिणा तथा ।
यावतो नेत्ररोगांश्च पानादेव विनाशयेत् ॥ ६ ॥
सरक्ते रक्तपित्ते च रक्ते चक्षुःस्रुतेऽपि च ।
नक्तान्धे तिमिरे काचे नीलिकापटलार्बुदे ॥ ७ ॥
अभिष्यन्देऽधिमन्थे च पिष्टे चैव चिरन्तने ।
नेत्ररोगेषु सर्वेषु वातपित्तकफेषु च ॥
सर्वनेत्रामयं हन्याद् वृक्षमिन्द्राशनिर्यथा ॥ ८ ॥
अभ्रकभस्म, तांवाभस्म, लोहाभस्म, सोनामाखीभस्म, रसौत और
पातनायंत्रमें शोधित आमलासारगंधक यह प्रत्येक औषधि एक एक
पल लेवें, इन सब औषधियोंको एकत्र पीसकर त्रिफलेके रस और
भांगरेके रसमें अलग अलग सात सात भावना देकर पीपलामूल, मुलैठी,
।