रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 746, कुल 799 में से
संदर्भ में पढ़ेंस्वप्नमेहहरा चैव शुक्रस्तम्भनकारिणी ॥४००॥
निद्राप्रदायिनी कामं कामोद्दीपनकारिणी ।
प्रलापनाशिका चैव धनुःस्तम्भहरा तथा ॥४०१॥
आन्त्रशूलहरा चैव वृक्कशूलप्रणाशिनी ।
पित्तशोषजशूलघ्नी त्वामाशयबलप्रदा ॥४०२॥
अजीर्णजातिसारघ्नी तथाजीर्णनिवारिणी ।
उन्मादनाशिनी चैव वृक्कशोथंव्यथाहरा ॥४०३॥
मूत्रला रक्तसंयुक्तमूत्रस्रावनिवारिका ।
विचित्रानन्दजननस्वप्नसन्तानकारिका ॥४०४॥
अर्शोव्यथाहरा चैव किञ्चिज्ज्वरनिवारिका ।
व्रणमेहसमुद्भूतशिश्नोत्थानव्यथाहरा ॥४०५॥
नाडीदौर्बल्यसम्भूतं तथाक्षेपसमुत्थितम् ।
रजःशूलं निहन्त्याशु भास्करस्तिमिरं यथा ॥४०६॥
आमाशयोत्थशूलघ्नी यक्ष्मकासहरा परम् ।
बस्त्याक्षेपहरा चैव साक्षेपतमकापहा ॥४०७॥
दारुणाक्षेपसंयुक्तमतिकष्टप्रदायिनम् ।
परं सङ्क्रामकं कासं विनिहन्ति विशेषतः ॥४०८॥
रजोनिवृत्तिकाconsumerलोत्थां प्रौढावस्थाक्षये तथा ।
शीर्षव्यथां तु नारीणां विनिहन्ति सुदारुणाम् ॥४०६॥
गर्भस्रावसमुद्भूतां मासिकस्रावकालजाम् ।
रक्तप्रदरजां वापि वृद्धां रक्तस्रुतिं जयेत् ॥४१०॥
आलपन् विस्मरेद् यन्त्रं स्वकीयं पूर्वभाषितम् ।
दौर्बल्यं मानसोद्भूतं विनाशयति सत्वरम् ॥४११॥
अन्नजातं तु निखिलं भुक्तं यत्र न जीर्यति ।
अजीर्णं नाशयत्याशु सारुचिं क्षुद्विवर्जितम् ॥४१२॥
अर्द्धावभेदकोपेताकाचरोगनिवारिका ।
सङ्कोचनी तथा श्रोत्रदृष्टिशक्तिविवर्द्धिनी ॥४१३॥
भङ्गायाः गुणाः—क्षुद्दीपनो क्षुधावृद्धिकरी, पित्तशोषजशूललक्षणं नारि-
केललवणस्य गुणव्याख्याने द्रष्टव्यम् । अजीर्णजातिसारघ्नीति अजीर्णजातमती-
सारं हन्ति । विचित्रानन्दजननेत्यादि—अस्याः प्रयोगात् निद्राविष्टः पुरुषः