सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 705, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 705

६८० रसतरङ्गिणी
अनिद्राजनिताजीर्णनाशनं दुग्धपाचनम् ।
अर्द्धावभेदकहरं श्रमकासनिवर्हणम् ॥१८७॥
निम्ननिर्दिष्टरोगाणां तत्तल्लक्षणसम्भवे ।
कारस्करं प्रयुञ्जीत भृशमत्यल्पमात्रया ॥१८८॥
निर्जनप्रियतां चैव परां क्रोधालुतां तथा ।
विनिहन्ति हि रुग्णानां तत्तद्धेतुविशेषजाम् ॥१८६॥
अम्लतिक्तरसोन्मिश्रानुद्गारान् नाशयत्यलम् ।
श्रमोत्थां चित्तदौर्बल्यसमतां मलबद्धताम् ॥१९०॥
अत्यम्लवदनास्वादं नवं वा चिरकालजम् ।
आध्मानं नाशयत्याशु भोजनोत्तरकालिकम् ॥१९१॥
चित्तावसादसंयुक्तं दारुणाध्मानसङ्गतम् ।
अम्लपित्तसमुद्भूतमन्त्रशूलं व्यपोहति ॥१९२॥
मलत्यागसमीहाढ्यां मुहुर्वेदनान्विताम् ।
कष्टप्रवृत्तमल्पमलां नाशयेन्मलबद्धताम् ॥१९३॥
अत्यल्पमूत्रस्रवणं सदाहं वेदनान्वितम् ॥
मूत्रेगोच्छापरिगतं मूत्ररोधं निवारयेत् ॥१९४॥
रक्तातिस्रावसंयुक्तं दीर्घकालानुबन्धनम् ।
रजःस्रावं निहन्त्याशु समयात्पूर्वकालिकम् ॥१९५॥
सवेदनां तथा पीतदुर्गन्धास्रावसंयुताम् ।
विनिहन्ति विशेषेण श्वेतप्रदरजां रुजम् १९६॥
रात्रौ निद्रायमाणस्य विवृद्धां पृष्ठदेशजाम् ।
वेदनां शमयत्याशु तथैव कटिवेदनाम् ॥१९७॥
दिने तु स्रवदास्रावं निशि स्रावविवर्जितम् ।
व्यपोहति विशेषेण प्रतिश्याये नवोत्थितम् ॥१९८॥
भक्तणोत्तरजं श्वासं हन्ति पित्तसमुत्थितम् ।
अनारतं जायमानं वर्त्मस्पन्दनकं तथा ॥१९६॥
रात्रिजागरणोद्भूतं तथा बह्वशनोत्थितम् ।
विवर्द्धमानं प्रत्यूषे सशब्दं तृष्णयान्वितम् ॥२००॥
आलोहितं घनञ्चैव कामं सलिलसन्निभम् ।
समुल्बणं विशेषेण विनिहन्त्युदरामयम् ॥२०१॥