रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 674, कुल 799 में से
संदर्भ में पढ़ें[Page-Header: चतुर्विंशस्तरङ्गः ६४६]
विषाणां सक्तुकान्तानां प्रयोगो नेह दृश्यते ।
अतस्तेषां विषाणां तु स्वरूपं न प्रदर्शितम् ॥ ६ ॥
अपि च स्थावरं विषं नवधा विभजन्ति पुराविदः । हालाहलः कालकूट
इत्यादिना । हालाहलादिविषाणां तन्त्रान्तरोक्तानि लक्षणानि—"गोस्तनाभफलो
गुच्छस्तालपत्रच्छदस्तथा । तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः ॥ असौ
हालाहलो ज्ञेयः किष्किन्धायां हिमालये । दक्षिणाब्धितटे देशे कोङ्कणेऽपि च
जायते ॥ देवासुररणे देवैर्हतस्य पृथुमालिनः । दैत्यस्य रुधिराजातस्तरुश्चत्थस-
न्निभः ॥ निर्यासः कालकू टोऽस्य मुनिभिः परिकीर्तितः । सोऽहिच्छत्रे शृङ्गवेरे
कोङ्कणे मलये भवेत् ॥ यस्मिन् गोशृङ्गके बद्धे दुग्धं भवति लोहितम् । स शृङ्गक
इति प्रोक्तो द्रव्यतत्त्वविशारदैः ॥ प्रदीप्लोहितो यः स्याद्दीप्तिमान् दहनप्रभः ।
महादाहकरः पूर्वैः कथितः स प्रदीपनः ॥ सुराष्ट्रविषये यः स्यात् स सौराष्ट्रिक
उच्यते ॥ वर्णातः कपिलो यः स्यात् तथा भवति सारकः । ब्रह्मपुत्रः स विज्ञेयो
जायते मलयाचले ॥ हरिद्रातुल्यमूलो यो हारिद्रः स उदाहृतः । यद्ग्रन्थिः सक्तु-
केनैव पूर्णमन्यः ससक्तुकः ॥" तदेत्कन्दजातीयमेव नवधा प्रकाशितं विषम् ।
वाग्भटेन कन्दविषेष्वेषां परिगणनात् । यद्यपि च—"साक्तुकं मुस्तकं शृङ्गी
बालकं सर्पपाह्वयम् । वत्सनाभञ्च कर्मण्यं विषं स्निग्धं घनं गुरु ॥ न जात्वन्यत्
प्रयोक्तव्यं कालकूटं विशेषतः ॥" इत्युक्तमभियुक्तैः, तथापि वत्सनाभातिरिक्त-
मुस्तकादिविषाणां परिचयानुपलम्भात् तदलभ्यत्वाद्वा प्रयोगो नेहोपलभ्यमानत-
न्त्रेषु दृश्यते । तदेतदाह-रसे रसायनादौ च वत्सनाभः प्रशस्यते ॥७-६॥
भा.टी.—प्राचीन शास्त्रकारों ने स्थावर विष के नौ भेद माने हैं । १—
हालाहल, २—कालकूट, ३—शृंगक, ४—प्रदीपन, ५—सौराष्ट्रिक, ६—ब्रह्म-
पुत्र, ७—हारिद्र, ८—सक्तुक, ६—वत्सनाभ । इन नौ विषों में से वत्सनाभ
विष रस क्रिया तथा रसायन प्रयोग में सर्वोत्तम माना जाता है । किन्तु सक्तुक
पर्यन्त विषों का प्रयोग नहीं पाया जाता है । अतएव इन सक्तुक, हारिद्र
आदि विषों का स्वरूप भी पूर्णरूप से नहीं दिखाया गया है ॥७-६॥
वत्सनाभक्षुपस्य परिचयः
सिन्दुवारदलः पार्श्वे तरुवृद्धिविवर्जितः ।
नीलपुष्पः कन्दविषो क्षुपो हस्तद्वयोच्छ्रितः ॥१०॥
वत्सनाभ इति ख्यातो रसतान्त्रविचक्षणैः ।
गढपाले च काश्मीरे नेपालादौ च जायते ॥ ११ ॥