रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 617, कुल 799 में से
संदर्भ में पढ़ें५६२ रसतरङ्गिणी
वीरतर्वादिगणभेषजक्वाथसंयुतम् ।
गिरिजं शीलितं हन्ति मूत्रकृच्छ्रादिकान् गदान् ॥९६॥
सिताक्षीरयुतं प्रातः शीलितं तु शिलाजतु ।
विनिहन्ति विशेषेण प्रमेहजनितां व्यथाम् ॥९७।
शिलाजतु सगोमूत्रं पुरविश्वकणायुतम् ।
ऊरुस्तम्भं महाघोरं नाशयत्यविलम्बितम् ॥९८॥
लोहभस्मयुतं नित्यं शिलाजतु समाक्षिकम् ।
शीलितं तु विशेषेण रक्तसञ्जननं परम् ॥९९॥
अर्जुनक्वाथसंयुक्तं शिलाजतु निषेवितम् ।
मासमात्रप्रयोगेण विनिहन्ति हृदामयम् ॥ १०० ॥
अग्निमन्थरसोपेतं शिलाजतु निषेवितम् ।
मासद्वयप्रयोगेण स्थौल्यं नाशयति ध्रुवम् ॥ १०१ ॥
शालसारादितोयेन शैलेयं परिभावितम् ।
तेनैव च कषायेण द्विमासं परिशीलितम् ॥ १०२ ॥
विनाशयेच्चिरोद्भूतं मधुमेहं विशेषतः ।
तथैव नाशयत्याशु त्वश्मरीं मूत्रशर्कराम् ॥ १०३ ॥
कणापाषाणभेदैलासंयुक्तस्तण्डुलाम्भसा ।
शिलामयः शीलितस्तु प्रमेहं विनिवारयेत् ॥ १०४ ॥
एलामागधिकायुक्ता शिलालाक्षा तु शीलिता ।
मूत्राघातं मूत्रकृच्छ्रं नाशयत्यविकल्पतः ॥ १०५ ॥
शिलामयः शिलाघृष्टः सचन्द्रः परिपूरणात् ।
क्षतं सद्योऽभिघातोत्थं विना पाकं प्ररोपयेत् ॥ १०६ ॥
रजनीरजोपेता शिलालाक्षा तु शीलिता ।
गोमूत्रेण समाख्याता कुम्भकामलिनां हिता ॥ १०७ ॥
लोहकाञ्चनभस्माढ्यः सर्ज्जकद्रवभावितः ।
शिलामयो गुञ्जमितः सततं परिशीलितः ॥ १०८ ॥
मसूरिकाज्वरं स्फोटं शोणकायज्वरं तथा ।
नाशयत्यचिरादेव वृत्तमिन्द्रोऽशनिर्यथा ॥ १०९ ॥
शिलामयस्य रोगयोग्यः प्रयोगः—वाताकुण्डलिका मूत्राघातविशेषः
वरुणादिगणस्तु सुश्रुतोक्तः । तद्यथा—“वरुणार्र्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृ-