सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 613, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 613

५८८ रसतरङ्गिणी
अपरं परीक्षणम्
सलिले या विनििक्षिप्ता तन्तुप्रस्रवकारिणी ।
आस्वादे कटुतिक्ता च शिलालाक्षा तु साऽमला ॥८३॥
भा.टी.-अथवा जिस शिलाजीत को थोड़ा-सा लेकर जल में डाला जाय
यदि वह जल में इधर-उधर को तार से होकर फैलने लगे और स्वाद में कटु
और तिक्त हो तो वह भी शुद्ध शिलाजीत होती है ॥८३॥
शिलामयस्य गुणाः
शिलाजतु मतं तिक्तं विपाके कटुकं तथा ।
मूत्रलञ्च विशेषेण योगवाहि रसायनम् ॥८४॥
भा.टी.-शिलाजीत तिक्त प्रधान रस, विपाक में कटु, मूत्र अधिक लाने
वाला योगवाही और रसायन द्रव्य है ॥८४॥
अपि च-
शिलास्वेदो बल्यः श्वयथुशमनः पाण्डुहरणः
क्षयश्वासप्लीहज्वरदहनमान्द्यापहरतः ।
अपस्मारोन्मादोदरगुदजकृच्छ्रप्रशमनः
समीरस्थौल्योरुक्षतहृदयशूलैकदलनः ॥८५॥
प्रमेहकरिकेशरी प्रबलशूलकालानलः
कृमिप्रशमनः परं सुवितताश्मरीशैलभित् ।
सकुष्ठवमिगुल्मजित् प्रबलवातरक्तप्लुतं
स्मृतो रसविशारदैः खलु शिलामयो निर्मलः ॥८६॥
गुणाः- उक्तमन्यत्रापि "शिलाह्वं कटुतिक्तोष्णं कटुपाकं रसायनम् । छेदि
योगावहं हन्ति कफमेहाश्मशर्कराः ॥ मूत्रकृच्छ्रं क्षयं श्वासं वातास्राशांसि
पाण्डुताम् । अपस्मारं तथोन्मादं शोथकुष्ठोदरकृमीन्" इति । स्यादेतत्
शिशिरं हि शिलाजतु इति पूर्वमुक्तमत्र च शिलाह्वं कटुतिक्तोष्णमिति उष्णवीर्य-
मुच्यते विरुद्धम् ? अत्र ब्रूमहे-न वयं सर्वं शिलाजतु शीतवीर्यमिति प्रतिजानीमहे,
यावता भवतैवं पर्यनुयुज्येमहि, अपितु ताम्रमुष्णवीर्यं सौवर्णं राजतं लौहञ्च
शीतवीर्यमिति, "शिलाभ्यो यस्य यज्जातं धातोस्तत्तद्गुणं वदेत्" इति वृद्धवाग्भ-
टस्मरणात् । यत्तु अनुभवसिद्धमस्योष्णत्वमिति तत्र च "सर्वञ्च तिक्तकटुकं नात्युष्णं
कटुपाकतः" इति गृहाण । कटुपाकतः इति हेतुपञ्चम्यास्तसिल् । इदमयुक्तं भवति
कटुपाकप्रभावाद् उष्णत्वमपि स्वधातुगुणयोगात् शीतलं सत् नात्युष्णं