रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 538, कुल 799 में से
संदर्भ में पढ़ें३३ विंशस्तरङ्गः ५१३
मृतसूतयुतं लौहं कटुकीद्रवभावितम् ।
मासद्वयप्रयोगेण सर्वाङ्गैकाङ्गवातहृत् ॥ १११ ॥
घृतमधुविनियुक्तं वा हरिद्रारसाढ्यं
त्वशितमिह हि लौहं वापि कट्वीशिवाभ्याम् ।
अपहरति विशेषान्मासमात्रप्रयोगात्
सुचिरजमपि पाण्डुं कामलाञ्चातिघोराम् ॥ ११२ ॥
विमलवलिसमेतं क्षौद्रगव्याज्ययुक्तं
कलितरुफलपथ्याधात्रिकोद्भूतवारा ।
कृतसमुचितपथ्यो वर्षमात्रप्रयोगात्
जनयति युवभावं ज्यायसाञ्चापि पुंसाम् ॥ ११३ ॥
लौहं गोक्षुरक्षुद्रैलाचूर्णेन परिशीलितम् ।
विनिहन्त्यचिरादेव मूत्रकृच्छ्रं सुदारुणम् ॥ ११४ ॥
खदिरासनसाराभ्यां सप्तधा परिभावितम् ।
लौहं निषेवितं हन्ति कुष्ठादीन् विविधान् गदान् ॥ ११५ ॥
गन्धमारितताम्राढ्यं लौहं तु परिशीलितम् ।
बलात्मगुप्ताक्वाथेन सर्वाङ्गैकाङ्गवातनुत् ॥ ११६ ॥
धात्रीरसहतं कान्तलौहं त्रिफलयान्वितम् ।
सेवितं वर्षमात्रं तु परमायुष्करं मतम् ॥ ११७ ॥
रोगयोग्यः प्रयोगो लोहस्य—कासानां पञ्चानां पञ्चविधान् कासान् इति
भावः । पञ्चतां विनाशमित्यर्थः । शिखरीबीजं अपामार्गबीजम् । गिरिजतु
शिलाजतु, अभिनवं यत्कुशकाशमूलं तत्क्वाथसंगतो वा, इतिशब्दः समुच्चये ।
नात्यल्पहेतुं प्रबलनिदानमित्यर्थः । दारुणं प्रभूतपीडाकरत्वात् । रसो मांसरसः,
कट्वी कटुकी, शिवा हरीतकी । कलितरुफलं विभीतकम् । ज्यायसां
वृद्धानाम् ॥ ६६—११७ ॥
भा.टी.—लोहभस्म की उचित मात्रा लेकर उसमें दालचीनी, इलायची-
बीज, तेजपत्र तथा नागकेशरचूर्ण और खाँड मिलाकर वासास्वरस अनुपान से
सेवन करने पर रक्तपित्त में आराम आता है । लोहभस्म में वासा, द्राक्षा तथा
पिप्पलीचूर्ण मिलाकर सेवन करने से पाँचों प्रकार के कास में लाभ होता है ।
भारंगी, सोंठ, मिर्च और पिप्पलीचूर्ण के साथ लोहमस्म का सेवन करने से
श्वास का वेग शीघ्र शान्त हो जाता है । कफप्रकोपजन्य रोगों में लोहभस्म को