सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 492, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 492

४६६ | रसतरङ्गिणी
मृतसीसकस्य मात्रा
पादांशतो रक्तिकाया रक्तिकैकमितं शुभम् ।
मृतं सीसं प्रयुञ्जीत बलकालाद्यपेक्षया ॥ ४६ ॥
मृतसीसकमात्रा देशकालापेक्षयावधानीयेति प्राह-पादांशतो रक्तिकायाः,
इत्यादिना ॥ ४६ ॥
आ.टी.- रोग और रोगी के बल, दोष, काल आदि का सम्यक विचार
करके चौथाई रत्ती से एक रत्ती तक सीसकभस्म प्रयोग की जाती है ॥४६ ॥
अथ मृतसीसकस्य आमयिकः प्रयोगः
गुञ्जैकप्रमितं सीसं निशामलकसंयुक्तम् ।
मधुना शीलितं तूर्णं प्रमेहं विनिवारयेत् ॥ ४७ ॥
अशोकक्वाथसंयुक्तं मृतं सीसन्तु शीलितम् ।
अचिरादेव चिरजं रक्तप्रदरमुद्धरेत् ॥ ४८ ॥
गुञ्जैकप्रमितं सीसं नागकेशरसंयुतम् ।
रक्ताशसं निहन्त्याशु वृत्तमिन्र्दाशनिर्यथा ॥४६॥
गुडूचिकासत्त्वरजोभिर्मिश्र मृतन्तु सीसं मधुनावलीढम् ।
विनाशयेन्नातिचिरेण नूनं बलासवातप्रभवन्तु मेहम् ॥५०॥
सुवर्णरससिन्दूरताम्राढ्यं खलु सीसकम् ।
शीलितं विनिहन्त्याशु त्वन्त्रशोथं सुदारुणम् ॥ ५१ ॥
आत्मगुप्ताबलामूलमांसीक्वाथेन सीसकम् ।
वृक्षशाथसमुद्भूतमाक्षेपं नाशयत्यलम् ॥ ५२ ॥
रससिन्दूरताम्राढ्य सीसकं परिशीलितम् ।
सर्वाङ्गकम्पनारब्धं हन्ति पक्षवधामयम् ॥ ५३ ॥
प्रसारणीबलारास्नाकपिकच्छूकषायतः ।
सतारं यशदं सीसं सुमृतं परिशीलितम् ॥ ५४ ॥
अङ्गप्रसारिणीपेशीगतदोषसमुत्थितम् ।
विनिहन्ति विशेषेण पक्षाघातं सुदारुणम् ॥ ५५ ॥
रोगयोग्यः प्रयोगः--निशा हरिद्रा । बलासवातप्रभवमिति बलासः कफः,
ततश्च कफवातजातमित्यर्थः । अन्त्रशोथवृकसमुद्भूताक्षेपादिनिवारकोऽस्य गुणः
प्राचीनार्पारभाषितोऽप्यनुभवादुक्तः अङ्गप्रसारिणीपेशीगतो दोषो वातसंस्थानदुष्टि-
हेतुः, तस्माज्जातं पक्षाघातम् ॥ ४७-५५ ॥