सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 49, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 49

प्रथमस्तरङ्गः ७
काचमृत्काष्ठलोहादिनिर्मितानि बहूनि च ।
पात्राणि कारयेद्धीमान् यत्नतः पात्रमानवित् ॥१६॥
सन्दंशिका कर्तरी च तथा शूर्पमुदूखलम् ।
चालनी वह्निमित्रा च स्थापनीया प्रयत्नतः ॥२०॥
दोलायन्त्रादिकानाञ्च सामग्रीं निखिलामपि ।
सुरक्षिते प्रदेशे तु स्थापयेद्भिषजाग्रणीः ॥२१॥
सुदृढा विविधाकाराः कूपिकाः काचनिर्मिताः ।
सपिधानाः सिद्धरसस्थापनाय समाहरेत् ॥२२॥
विविधानि सुरूपाणि पित्तलादि कृतानि च ।
मानयुक्तानि वै वैद्यस्तुलायन्त्राणि रचयेत् ॥२३॥
मसृणान्यतिनूतनानि कागदानि सितानि तु ।
रसौषधप्रदानार्थं प्रशस्यन्ते भिषग्वरैः ॥२४॥
वन्योत्पलानि काष्ठानि तुषादीनि तृणानि च ।
शिखित्रान् कोकिलांश्चापि रक्षयेद्भिषजां वरः ॥२५॥
यच्चान्यदुपयोगि स्याद् देशकालाद्यपेक्षया ।
तत्तत्संस्थापयेत्तत्र रसकर्मविशारदः ॥२६॥
प्रत्यहं कारयेद्धीमान् शालायां मार्जनादिकम् ।
भृत्यैः कर्मसु निष्णातैः सदाऽऽतङ्कनिवृत्तये ॥२७॥
प्रसङ्गादुपकरणद्रव्याणि -- द्रोणीरूपाः = नौकाकाराः, वर्तुलाः = गोलाः,
तद् योग्याः खल्वसमानोपादानाः । सन्दंशिका वस्तुदृढग्रहणसाधनम् , चालनी
औषधादिशोधनी "तितउ" इति ख्याता, वह्निमित्रा = मूषा, सुरक्षिते रजः-
कृम्यादिवर्जिते, सपिधानाः यथायोगं कोमलकाष्ठकाचादिनिर्मितमुखावरणा-
न्विताः, विविधानि लघूनि बृहन्ति च, मसृणानि = सुचिकणानि अतिनूतनानि,
पुरातनानि विदीर्य्यन्ते, कागदानि सितानि मस्यादिसम्पर्करहितानि तथा च
मुद्रितपत्रेष्वौषधं न्यस्तं विगुणीभवतीति । वन्योत्पलानि वने स्वयं शुष्काणि,
शिखित्रः जलनिर्वापितं दग्धकाष्ठं, कोकिलः सबाष्परोधं निर्वापितमिति भेदः ।
"शिखित्राः पावकोच्छिष्टा अङ्गाराः कथिताः पुनः । कोकिलाश्चेतिताङ्गारा निर्वाणाः
पयसा विना।।" इति रसरत्नसमुच्चयात् । अन्यदपि योग्यतानुसारमावश्यकं सुरा-
प्रदीपादि । आतङ्कनिवृत्तये रोगपरिहारार्थम् । स्पष्टमन्यत् ॥ १८-२७ ॥
भा.टी.—रसशाला में निम्नलिखित उपकरण और समय समय पर यन्त्र