सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 426, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 426

निवृत्ते तु किलाटाभं वस्तुपाते तु निश्चितम्।
न क्षिपेल्लवणद्रावं रसायनविधानवित् ॥ ८१ ॥
अल्पकालावसानेऽथ जलीयांशं तदूर्ध्वगम्।
निपातयेत्प्रयत्नेन किलाटीभपदार्थतः ॥ ८२ ॥
पीताश्वध्नसुमाकारप्रणाल्यां सारकं दलम्।
विन्यस्य चेदं रजतं क्षालयेद्विमलाम्भसा ॥ ८३ ॥
जलं सारकपत्रान्तर्निर्यातं तलपात्रगम्।
परीक्षेत प्रयत्नेन रसायनविधानवित् ॥ ८४ ॥
आदायैतज्जलं प्राज्ञः शरावे स्वल्पमात्रकम्।
नृसारबाष्पसंयुक्तं द्रवं किञ्चिद्विनिक्षिपेत् ॥ ८५ ॥
नृसारबाष्पसंयुक्तं द्रवक्षेपेण चेदिदम्।
जलं नीलत्वमायाति तदा धौतं तु रौप्यकम् ॥ ८६ ॥
सताम्रमधुनापीति व्यवस्येद्रसकोविदः ।
तारं प्रक्षालयेद्यावन्न जहाति हि नीलताम् ॥ ८७ ॥
ताम्रांशरहितं रौप्यं काचपात्रे ततो न्यसेत् ।
जलेनाप्लाव्य स्वल्पं तु लवणद्रावकं क्षिपेत् ॥ ८८ ॥
यशदस्य च पत्राणि स्वल्पानीह क्षिपेत्तथा।
अल्पकालावसानेऽथ रौप्यं ताम्रादिवर्जितम् ॥ ८९ ॥
भस्मप्रभं काचपात्रतलगं जायते ध्रुवम्।
ततः खलु व्यतिक्रान्ते सप्ताहे वा दिनाष्टके ॥ ९० ॥
रौप्यं रक्षन् जलीयांशं प्रयत्नेनापसारयेत् ।
ततः सारकपत्रेण रौप्यं भस्मप्रभं पुनः ॥ ९१ ॥
वार्षिकेणाम्भसा विज्ञः क्षालयेदविलम्बितम् ।
ततः सारकपत्रान्तर्निर्यातं सलिलं पुनः ॥ ९२ ॥
प्रयत्नेन परीक्षेत रसायनविशारदः ।
आदायैतज्जलं स्वल्पं काचपात्रे तु विन्यसेत् ॥ ९३ ॥
नृसारबाष्पसंयुक्तं जलं किञ्चिद्विनिक्षिपेत् ।
नृसारबाष्पसंयुक्तजलक्षेपेण चेदिदम् ॥ ९४ ॥
जलं शुक्लत्वमायाति तदा तारन्तु निश्चितम् ।
सद्रावमधुनापीति व्यवस्येद्रसकोविदः ॥ ९५ ॥