सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 407, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 407

पञ्चदशस्तरङ्गः ३८१

षण्मासमात्रं तु निषेव्येण मेधाभिवृद्धिं जनयेन्नित्तान्तम् ॥१०१॥
मृतं सुवर्णं परिशीलयन्तः स्थिराविदारीवरदाजराभिः ।
मासत्रयेणैव कृशाः पुमांसः प्रपुष्टदेहाश्च बहुप्रजाः स्युः ॥१०२॥
सुवर्णचूर्णं परिशीलयन्तो धात्रीस्थिराविश्वपुनर्नवाभिः ।
अधृष्यदेहा बलिभिर्भवन्ति तारुण्यलावण्यविलासपूर्णाः ॥१०३॥
जीवनीयगणोद्दिष्टभेषजैः परिशीलितम् ।
सुवर्णं सर्वदा पुंसां जीवनीयं परं स्मृतम् ॥ १०४ ॥
नागकेशरचूर्णेन सुवर्णं परिशीलितम् ।
ऋतौ सीमन्तिनीनान्तु गर्भधारणमुत्तमम् ॥ १०५ ॥
काकोल्यादिगणोद्दिष्टैर्यथासम्भवयोजितैः ।
भेषजैरञ्चितं स्वर्णं स्तन्यसंवर्द्धनं परम् ॥ १०६ ॥
सताप्यभसितं स्वर्णं सितया सुविमिश्रितम् ।
नानायोगसमुद्भूतां विषबाधां व्यपोहति ॥ १०७ ॥
निर्विषीचूर्णसंयुक्तं तपनीयं निषेवितम् ।
अचिरादेव नियतं विषबाधां व्यपोहति ॥ १०८ ॥
पाटलाफलनीरेण सक्षौद्रं मृतकाञ्चनम् ।
निषेवितं निहन्त्याशु हिक्कां दोषत्रयोद्भवाम् ॥ १०६ ॥
सितोपलासमायुक्तं सुवर्णं परिशीलितम् ।
अस्थिशोषं त्वस्थिशोथं तथैवास्थिगतञ्ज्वरम् ॥ ११० ॥
स्तनन्धयानां बालानां विशेषादस्थिवक्रताम् ।
दारुणामस्थिपीड़ां च नाशयत्यविकलपतः ॥ १११ ॥
( गीतिका )
जटिलारजोविमिश्रं परिशीलितं सुवर्णम् ।
विनिहन्ति शीर्षदेशे विततं प्रसादवातम् ॥ ११२ ॥
त्रिगुणाभ्रलोहमिश्रं वरुणाम्भसा सुवर्णम् ।
विनिहन्ति वृक्कतोगं खलु दाहशोथयुक्तम् ॥ ११३ ॥
गिरिजत्वचोविमिश्रं रजतान्वितं सुवर्णम् ।
श्वयथुं जरायुसंस्थं विनिहन्ति सोपसर्गम् ॥ ११४ ॥
गगनायसा समेतं परिशीलितं सुवर्णम् ।
जठरस्थितं मलाख्यं विनिहन्ति वातमारात् ॥११५॥