रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 406, कुल 799 में से
संदर्भ में पढ़ें३८० रसतरङ्गिणी
शीलितं नाशयेत्तूर्णंमतीसारमसंशयम् ॥८६॥
रसपर्पटिकोपेतं सुवर्णं परिशीलितम् ।
ग्रहणीं चिरसञ्जातां नाशयेदविकल्पतः ॥८७॥
गुडूचिकासत्त्वरजोविमिश्रं स्वर्णं सलोहं परिशीलितन्तु ।
नवोत्थितं वा सुचिरोत्थितं वा पाण्ड्वामयं नातिचिरान्निहन्यात्॥८८॥
साभ्रकं वा ससिन्दूरं समौक्तिकमथापि वा ।
सुवर्णं नाशयेत्तूर्णं राजयक्ष्माणमुल्बणम् ॥८९॥
क्षीरकाकोलिकोपेतं चोपचीनीसमन्वितम् ।
सुबर्णं शोधयेत्तूर्णं गर्भाशयमसंशयम् ॥९०॥
गुडूचिकाकुङ्कुमसारिवाद्यैर्वनौषधैः शोणितशोधनीयैः ।
स्वर्णं प्रयुक्तं रसपुष्पयुक्तं हरेत्फिरङ्गं चिरजन्तु तूर्णम् ॥९१॥
शट्यादिभिः श्वासहरैर्द्रव्यैस्तु चरकोदितैः ।
स्वर्णं नातिचिरादेव नाशयेच्छ्वासमुल्बणम् ॥९२॥
धात्रीचूर्णसमायुक्तं सुवर्णं खलु शीलितम् ।
अम्लपित्तं निहन्त्याशु चिरोत्थमपि दारुणम् ॥९३॥
सिन्दूराभ्रसमायुक्तं सुवर्णं शङ्खिनीयुतम् ।
अपस्मारं निहन्त्याशु योषापस्मारकं तथा ॥९४॥
रससिन्दूरसंयुक्तं सुवर्णं परिशीलितम् ।
बलाक्वाथेन नियतं शीर्षवेपथुनाशनम् ॥९५॥
पुनर्नवाकज्जलिकायुक्तं सुमृतकाञ्चनम् ।
गोमूत्रेण प्रयुक्तं तु मुष्कशोथं विनाशयेत् ॥९६॥
द्राक्षाकणाकट्फलयष्टिकाभिः सुवर्णचूर्णस्य निषेवणेन ।
वाणी जयत्याशु रुतं विशेषात् पुंस्कोकिलानां मधुमादितानाम् ॥९७॥
रक्ताङ्गतुङ्गोत्पलयष्टिकाभिः सितासमङ्गारुधिरादिभिर्वा ।
स्वर्णं प्रयुक्तं खलु सुन्दरीणां लावण्यवृद्धिं प्रकरोत्यनल्पाम् ॥९८॥
विश्वलवङ्गमरिचैः सचौद्रैस्तु निषेवितम् ।
सुवर्णं नाशयेत्तूर्णं मुन्मादन्तु त्रिदोषजम् ॥९९॥
धात्रीचूर्णयुतं स्वर्णं गायत्रीरसभावितम् ।
शीलितं चरमे काले हन्ति रिष्टान्यशेषतः ॥१००॥
सुवर्णचूर्णं परिशीलितन्तु वचामृताविश्वशतावरीभिः ।