रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 392, कुल 799 में से
संदर्भ में पढ़ें६३६ रसतरङ्गिणी
लेपं प्रशुष्कं प्रसमीक्ष्य वैद्यः शरावसंस्थानि तु कोकिलाग्नौ ।
पुटेत्पुटे कुक्कुटसंज्ञके तु स्वर्णं भवेच्छोडशवर्णतुल्यम् ॥१९॥
द्वितीयः शोधनप्रकारः—कोकिला अङ्गाराः षोडशवर्णं उज्ज्वलरक्तसर्वां-
शशुद्धम् ॥ १८, १६ ॥
भा.टी.—एक तोले परिमाण के स्वर्ण के पत्रों पर सैन्धानमक, जंगली
उपलों की राख बिजौरानीबू के रस में घोटकर इसका लेप कर दें । जब इन पर
का लेप सूख जाय तो इन्हें एक शराव में रखकर कुक्कुटपुट की कोयलों की
अग्नि में पुट देवें तो स्वर्ण सर्वांश शुद्ध उज्ज्वल रक्तवर्ण हो जाता है ॥१८-१६॥
तृतीयः शोधनप्रकारः
सूचीवेध्यानि पत्राणि सुवर्णस्य समाहरेत् ।
कर्तर्या कर्तयेच्चाथ कणान् सूक्ष्मांस्तु कारयेत् ॥ २० ॥
मृल्लिप्ते काचपात्रे च न्यसेत्स्वर्णकणांस्ततः ।
त्रिपादिकायां विन्यस्य सुरादीपाग्निना पचेत् ॥ २१ ॥
लवणद्रावकं तत्र निक्षिपेत्तु शनैः शनैः ।
सोरकद्रावकञ्चाथ पूर्वद्रावस्य पादिकम् ॥ २२ ॥
विधिज्ञो निक्षिपेद्यावद् द्रवतां याति काञ्चनम् ।
किञ्चित्कालं पचेच्चाथ द्रवाधिक्यनिवृत्तये ॥ २३ ॥
सलिलञ्चाथ निक्षिप्य पचेदथ विधानवित् ।
सजलं चणकाम्लञ्च तावत्तत्र विनिक्षिपेत् ॥ २४ ॥
यावत्खलु सुवर्णस्य चणकाम्लस्य योगतः ।
अतिसूक्ष्मकणं चूर्णं पात्राधः पतितं भवेत् ॥ २५ ॥
विनश्यत्यम्लता यावत् तावत्प्रक्षालयेज्जलैः ।
संशोष्य चाथ मतिमान् विशुद्धं स्वर्णमाहरेत् ॥ २६ ॥
तृतीयः शोधनप्रकारो नवीनैः परिभाषितः—काचपात्रस्य मृदा लेपः
वह्नितापसहत्वसम्पादनाय । सुरादीपपरिचयः पूर्वमुक्तः, सुरादीपप्रयोगश्च स्थिर-
तासम्पादनाय । शनैः शनैः लवणद्रावकप्रक्षेपः सुवर्णगालनयोग्यताज्ञानाय ।
चणकाम्लकं चणकद्रुमनिपतितावश्यायपाकजातम् “Oxalic Acid” इत्याङ्ग्ल-
भाषायाम् । स्पष्टमन्यत् ॥ २०-२६ ॥
भा.टी.—पहिले स्वर्ण के सूचीवेध्य पत्रों को लेकर इनको कैंची से काटकर
इनके बहुत छोटे टुकड़े बना लें । अब इन टुकड़ों को मिट्टी से लिप्त किये