रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 372, कुल 799 में से
संदर्भ में पढ़ें३४६ रसतरङ्गिणी
चिञ्चिकाभसितञ्चैव चिञ्चाभस्म तथैव च ।
अम्लिकाभसितञ्चापि तिन्तिडीभसितं तथा ॥ १०८ ॥
चिञ्चाक्षार, अम्लिकाक्षार, चिञ्चिकाक्षार, अम्लीकाक्षार, चिञ्चाभूति,
चिञ्चिकाभसित, चिञ्चाभस्म, अम्लिकाभसित तथा तिन्तिडीभसित, ये सब नाम
इमलीक्षार के कहे जाते हैं ॥ १०७, १०८ ॥
अस्य गुणाः
अम्लिकाक्षारकः प्रोक्तो वह्निमान्द्यविनाशनः ।
शूलगुल्महरश्चापि मूत्रकृच्छ्राश्मरीहरः ॥ १०६ ॥
अम्लिकाक्षारकः विशेषतोऽग्निमान्द्यहरः ॥ १०६ ॥
भा.टी.— इमली का क्षार अग्निमान्द्य को नष्ट करता है, गुल्म तथा शूल
में आराम पहुँचाता है और मूत्रकृच्छ्र तथा अश्मरी को दूर करता है ॥१०६॥
अस्य आमयिकः प्रयोगः
स्नुगर्कक्षारसहितो मृतशङ्खसमन्वितः ।
चिञ्चाक्षारोऽशनादाशु नाशयेत्तु विषूचिकाम् ॥ ११० ॥
शूलमुन्मूलयेत्कामं वह्निमान्द्यविनाशनः ।
अजीर्णं क्षपयत्येव गुल्मबाधां विशेषतः ॥ १११ ॥
पटुपञ्चकसंयुक्तो जरणत्र्यूषणान्वितः ।
शीलितस्त्वम्लिकाक्षारो हरेद् ग्रहणीकारुजम् ॥ ११२ ॥
अरोचकं निहन्त्याशु तथा शूलं सुदारुणम् ।
आध्मानं पक्तिशूलञ्च विष्टब्धाजीर्णकं तथा ॥ ११३ ॥
चिञ्चिकाभसितं द्राक्षाशर्कराभ्यां समन्वितम् ।
अवलीढं विशेषेण तन्नरोचकहरं परम् ॥ ११४ ॥
अम्लिकाभसितं व्योषचूर्णेन परिशीलितम् ।
वह्निमान्द्यं निहन्याशु वाताजीर्णञ्च दारुणम् ॥ ११५ ॥
चिञ्चाक्षारः समरिचः शङ्खभूतिसमन्वितः ।
अतिसारे ग्रहण्याञ्च शिशूनान्तु प्रशस्यते ॥ ११६ ॥
रोगप्रयोगपाठे स्नुगर्कक्षारसहितः स्नुहीक्षारार्कक्षाराभ्यां सहितः । पटुपञ्चकं
लवणपञ्चकम् ॥ ११०–११६ ॥
भा.टी.— इमलीक्षार में थोहरक्षार, आकक्षार, शंखभस्म मिलाकर अर्क
अजवाइन या पलाण्डुस्वरस से देने पर विसूचिका में शीघ्र ही आराम