सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 346, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 346

३२० रसतरङ्गिणी
टङ्कः सूतविकारोत्थं लालास्रावं विनाशयेत् ॥ ८४ ॥
सबीलष्टङ्कणो युक्त्या मुहुर्मुद्भवघर्षितः ।
विनाशयेत् क्षतं घोरं दन्तवेष्टसमुत्थितम् ॥ ८५ ॥
विमलष्टङ्कणक्षारश्चूषितस्तु शनैः शनैः ।
स्वरावरोधं कण्ठस्य नाशयेदतिसत्वरम् ॥८६॥
सव्यूषणष्टङ्कणस्तु मधुना परिशीलितः ।
विनाशयेत् क्षणेनैव त्वाध्मानमतिदारुणम् ॥ ८७ ॥
सरामठः सयवजष्टङ्कणः परिशीलितः ।
सन्ध्याद्वये सप्तदिनं नाशयेत् स्नायुकामयम् ॥८८॥
लवङ्गशुण्ठीमरिचंसमुपेतस्तु टङ्कणः ।
मयूरक्षारसंयुक्तो भुक्तमांसादिजारणः ॥ ८९ ॥
सुचूर्णितष्टङ्कणस्तु व्रणेषु त्ववचूर्णनात् ।
निहन्ति रुधिरस्रावं सद्य एव सुदारुणम् ॥६०॥
टङ्कणं वह्निसम्भृष्टं मधुना सह लेपयेत् ।
मुखपाकं निहन्त्याशु दाहशोथादिसंयुतम् ॥६१॥
सुचूर्णितं टङ्कणन्तु द्रावयेद्विमले जले ।
योनौ बस्तिप्रयोगेण पिडकादिरुजं हरेत् ॥६२॥
पुरातनगुडोपेतष्टङ्कणस्तु विचूर्णितः ।
अवचूर्णनयोगेन प्रशस्तो व्रणरोपणे ॥६३॥
सौभाग्यं वह्निसम्भृष्टं श्वेतचन्दनपङ्कय क्।
लेपेन नाशयत्याशु सिध्मरोगं न संशयः ॥६४॥
काकमाचीद्रवोपेतं टङ्कणं परिशीलिम् ।
विनिहन्यचिरादेव वमिं खलु सुदारुणाम् ॥ ६५ ॥
अथास्य रोगयोग्यः प्रयोगः—सिंही वासकः; “भिषङ्माता च सिंहिका”
इति निघण्टुः । स्नायुकामयः “नहरुवा” इति भाषाप्रसिद्धः । मयूरक्षारः अपा-
मार्गक्षारः ॥ ८२-६५ ॥
भा.टी.—कफ को पतला करने के लिये टंकण को कायफल, त्रिकटु, वासा-
क्षार, जवाखार के साथ मिला प्रयोग किया जाता है । उदररोगों में मृदुरेचन के
लिये सुहागे में त्रिकटुचूर्ण और इसके समभाग शुद्ध जमालघोटा मिलाकर बनायी
हुई गोलियाँ दी जाती हैं । अशुद्धपारद के खाने से उत्पन्न होनेवाले लालास्राव