रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 335, कुल 799 में से
संदर्भ में पढ़ेंत्रयोदशस्तरङ्गः ३०६
सर्पिषा वा समाख्यातो मक्कलाभिधशूलनुत् ॥ १० ॥
जरणत्रयूषणोपेतो यवक्षारस्तु शीलितः ।
भोजनादौ तदन्ते च दीपनः पाचनः स्मृतः ॥ ११ ॥
रोहीतकक्षोद्युतस्त्वथवा शरपुंखया ।
शीलितस्तु यवक्षारो गुल्मप्लीहनिकृन्तनः ॥ १२ ॥
मरिचनागरोपेतो यवजस्तूष्णवारिणा ।
द्वित्रिवारप्रयोगेण वातशूलं हरेद् भृशम् ॥ १३ ॥
एलासितोपलोपेतः शीलितो यवशूकजः ।
मूत्रकृच्छ्रं निहन्त्याशु दाहशोथादिसंयुतम् ॥ १४ ॥
गोक्षुरक्वाथसंयुक्तो यवक्षारस्तु शीलितः ।
शकृद्विघातजं शीघ्रं मूत्रकृच्छ्रं विनाशयेत् ॥ १५ ॥
तक्रेण तु यथाकामं यवक्षारस्तु शोलितः ।
अश्मरीं नाशयत्याशु मूत्रकृच्छ्रञ्च दारुणम् ॥ १६ ॥
शर्करासंयुतो यव्यः कूष्माण्डस्वरसेन वै ।
निपीतो नाशयत्याशु मूत्रकृच्छ्रादिकान् गदान् ॥ १७ ॥
अजमोदात्रिकटुककणोपेतो यवोद्भवः ।
क्षारस्तु भक्षणादाशु वातोत्थोदररोगनुत् ॥ १८ ॥
हिङ्गुत्रिकटुकोपेतः सकुष्ठश्च ससैन्धवः ।
बीजपूररसैः पीतः प्लीहशूलहरः परम् ॥ १९ ॥
यवक्षारस्तु निम्बूकरसेन परिशीलितः ।
मूत्रलः स्वेदजनकः स्मृतश्च ज्वरनाशनः ॥ २० ॥
शंखभस्मयुतो यव्यः सव्योषश्च ससैन्धवः ।
उष्णोदकेन सम्पीतो हन्ति शूलं त्रिदोषजम् ॥ २१ ॥
वासकस्वरसोपेतो यवशूकसमुद्भवः ।
क्षारस्तु शीलितोऽत्यर्थं बहुमूत्रं निवारयेत् ॥ २२ ॥
बब्बूलस्वरसेनापि तन्निर्यासेन वाशितः ।
यवजः स्वल्पकालेन त्वौपसर्गिकमेहनुत् ॥ २३ ॥
शिग्रुक्वाथयुतः पीतः सक्षौद्रो यवशूकजः ।
पार्श्वशूलं बस्तिशूलं हृच्छूलञ्चैव नाशयेत् ॥ २४ ॥
यवक्षारस्तु सततं कटुतैलेन लेपितः ।