सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 318, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 318

२७६ रसतरङ्गिणी
गुरुदर्शितमार्गेण व्रणमेहमुपाचरेत्।
व्रणं मेहव्रणं हन्ति पूयस्रावञ्च दारुणम् ॥ १६१ ॥
सितान्विता रक्तिमिता चूर्णिता स्फटिकारिका।
अशिता नाशयत्याशु रक्तपित्तं सुदारुणम् ॥ १६२ ॥
स्फटीं गुञ्जाषट्कमितां पञ्चतोलकसंमिते।
जले संद्राव्य युञ्जीत यत्नाद्वस्तिविधानतः ॥ १६३ ॥
गुदाङ्कुरान् चिरोद्भूतान् संकोचयति सत्वरम्।
रक्तं च रोधयत्यत्र गुदभ्रंशञ्च नाशयेत् ॥ १६४ ॥
तरुण्या रक्तपुष्पायाः सलिले तु परिस्रुते।
पञ्चकोलोन्मिते काङ्क्षीं चतुर्गुञ्जमितां क्षिपेत् ॥ १६५ ॥
तस्याम्भसस्तु नयने द्वित्रिबिन्दून् विनिक्षिपेत्।
अभिष्यन्दं निहन्त्याशु शोथपाकादिसंयुतम् ॥ १६६ ॥
स्फटिकां तोलकमितां पञ्चाशत्तोलकोन्मिते।
जले विद्राव्य युञ्जीत यत्नेनोत्तरबस्तिना ॥ १६७ ॥
गर्भाशयं प्रसूतायाः सव्यथं स्थानविच्युतम्।
सङ्कोचयत्याशु तथा रक्तस्रावं रुणद्धि च ॥ १६८ ॥
योनिश्च शिथिलीभूता स्वस्थानन्तु प्रपद्यते।
कण्डूतिकां हन्ति तथा श्वेतप्रदरजां रुजम् ॥ १६९ ॥
रससिन्दूरसंयुक्ता स्फटी गुञ्जोन्मिताशिता।
अधोगमूर्ध्वगं वापि रक्तपित्तं हरेद् भृशम् ॥ २०० ॥
रक्तिद्वयमितां कांक्षीं भक्षयेत्सितया समम्।
अपक्कनागशनजं शूलं हरति दारुणम् ॥ २०१ ॥
बकुलत्वग्भवक्षोदयुक्ता तु स्फटिकारिका।
घर्षिता दन्तमूलेषु दन्तदार्ढ्यकरी मता ॥ २०२ ॥
स्फटीशक्रयवोपेता गुञ्जाद्वितयसंमिता।
अशिता नाशयत्याशु त्वतिसारं सुदारुणम् ॥ २०३ ॥
लवंगैलासितोपेता चूर्णिता स्फटिकारिका।
दन्तेषु घर्षिता कामं नाशयेद् दन्तशर्कराम् ॥ २०४ ॥
सैन्धवं तोलकमितं स्फटिका कर्षसंमिता।
दन्तेषु घर्षणादेव दन्तपैच्छिल्यमुद्धरेत् ॥ २०५ ॥