सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 277, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 277

दशमस्तरङ्गः २३५
अथ अभ्रकस्य आमयिकः प्रयोगः
रससिन्दूरसंयुक्तं मृताभ्रं नाशयेज्ज्वरान् ।
सचौद्रं सकणञ्चापि जीर्णज्वरविनाशनम् ॥ ७४ ॥
सचौद्रं सवरं व्योम दृष्टिशक्तिकरं परम् ।
सव्योषं सघृतञ्चैतद् ग्रहणीं नाशयेत् क्षणात् ॥ ७५ ॥
हरीतकीगुडोपेतं शर्करैलासमन्वितम् ।
मृताभ्रं सेव्यमानन्तु रक्तपित्तहरं परम् ॥ ७६ ॥
सव्योषं सवरञ्चैव चातुर्जातकसंयुतम् ।
सचौद्रं क्षपयेदंशः पाण्डुक्षयहलीमकान् ॥ ७७ ॥
मृताभ्रं रजनायुक्तं कणया मधुनापि च ।
मासमेकं लिहेत्प्राज्ञो मेहरोगाद्विमुच्यते ॥ ७८ ॥
मृतकाञ्चनसंयुक्तं मृताभ्रं माससेवितम् ।
धातुवृद्धिकरं पुंसां विशेषात्क्षयनाशनम् ॥ ७९ ॥
गुडूचीसत्त्वसंयुक्तं मेहवर्गप्रणाशनम् ।
तारस्वर्णयुतं त्वभ्रं शुक्रसन्तानकारकम् ॥ ८० ॥
भूधात्रिकागोक्षुरचन्द्रवालारुतान्वितं गव्यघृतेन लीढम् ।
संसेव्यमानं गगनं तु तूर्णं विनाशयेद् दारुणमूत्रकृच्छ्रम् ॥ ८१ ॥
क्षाराष्टकयुतं त्वभ्रं मूत्राघातं विनाशयेत् ।
अश्मरीं मूत्रकृच्छ्रञ्च विशेषादग्निदीपनम् ॥ ८२ ॥
मूर्वाक्वाथसमायुक्तं मृताभ्रं व्रणनाशनम् ।
पयस्यागव्यदुग्धाभ्यां परमं बलवर्द्धनम् ॥ ८३ ॥
भल्लातकान्वितं व्योम त्वर्शांस क्षपयेद् ध्रुवम् ।
लवङ्गक्षौद्रसंयुक्तं धातुवृद्धिकरं परम् ॥ ८४ ॥
विजयास्वरसोपेतं जात फलसमन्वितम् ।
मृताभ्रं जुषतां पुंसां शुक्रस्तम्भः प्रजायते ॥ ८५ ॥
विश्वभेषजपौष्करान्वितं विप्रयष्टितुरगासमन्वितम् ।
सेवितं समधु मारिताभ्रकं नाशयेज्झटिति मारुतामयम् ॥ ८६ ॥
अभ्रं कज्जलिकोपेतमर्जुनक्वाथभावितम् ।
कृमजं श्लैष्मिकं वापि विनिहन्ति हृदामयम् ॥ ८७ ॥
ससितं सचतुर्जातं त्वभ्रं पित्तामयापहम् ।