सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 257, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 257

चपलनिर्णयः २१५
द्वितीयस्तु घनद्रवरूपः प्रभेदो रक्तवर्णः-स ह्याप्यते जल्योग-
मृदूकृताभ्यां हीनौषजनीय-सेलिनियममूलगन्धकामूलाभ्यां मिश्रणेन ।
शनैरत्र चाधः पतितः । तृतीयो गाढरक्तवर्णो सेलिनियमश्चूर्णरूपः ।
द्वितीया श्रेणी--उक्तयोः प्रथमतृतीयप्रभेदयोः कोकिलेद्विगन्धकि-
तेन सह निरन्तरमवस्थानात् प्राप्यते । द्वावेव स्थिरौ प्रभेदावस्या रक्त-
वर्णौ पुष्पाकारावधुना यावज्ज्ञातौ । द्रुतमग्नितापेन द्विशतेंऽशे तरली-
भवन्ति पुष्पायनयोः, प्रादेशिकी च परिवृत्तिर्भवति धात्वीये रूपे ।
तथा च पुष्पाणां द्रवोभावायास्थिरतापज्ञापको बिन्दुः सप्तत्युत्तरशताद-
शीत्युत्तरशतं यावदंशं कथ्यते ।
तृतीया श्रेणी धात्वीयुरूपा--प्राप्यते चेत् कोऽप्युक्तः सेलिनियमः
द्विशतादाविंशत्युत्तरद्विशतमंशमुष्णोक्रियते । धात्वाकारः सेलिनियमो
हि ताराभश्वेतः पिण्डरूपश्च भवति । अस्य चूर्णं कृष्णवर्णं, अतिश्लक्ष्णं
सत् रक्तवर्णं जायते । कोकिलद्विगन्धकितेऽविलेयः । क्लोरोफार्म इत्याख्ये
च विलेयः ।
सेल्लिनियमस्यावर्तनबिन्दुश्च नवत्युत्तरषट्शतमंशमिति । बाष्पाणि
चोत्तिष्ठन्ति गाढरक्तवर्णकानि ।
अत्रापि चपलेन साम्यं स्पष्टम् । चपलोऽरुणवर्णः, द्वितीयायां
श्रेण्यामागतौ सेलिनियमप्रभेदावपि रक्तवर्णौ । चपलः श्वेतः ताराभश्चः ।
तृतीयायां श्रेण्यामागंतो धात्वीयः सेल्लिनियमोऽपि ताराभः श्वेतः ।
चपलस्य षडस्रित्वमप्येको गुणः स्वरूपनिर्णायकः । सेलिनियमोऽपि
षडस्र भवति । उक्तं च--
"A third variety, isomorphous with the crystals
of cellurium and belonging to the hexagonal system
is obtained at temperature above 120.°
Roscoe and Schorlemmer.
त्रिंशोत्तरशतादधिकेन तापेन टेलुरिङ्गम (तत्त्वविशेष)-पुष्पाकृ-
तीनि षडस्रीणि चास्य पुष्पाण्युपपाद्यन्ते ।
'ये च घनद्रवरूपादिप्रभेदाः सेलिनियमस्य ते च लाक्षावच्छीघ्रद्रा-
वास्तु निष्फलाः' इत्यनेनैव रसतन्त्रेषु गृहीताः ।
अनेन व्याख्यानेनेदं तु व्यक्तं यद्रसतन्त्रोक्तश्चपलो गौरादिवर्णकः
स्फटिकच्छायो वङ्गवद् द्रुतिशीलः स्निग्धो गुरुश्च सेलिनियमेन बाह्येषु