रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 203, कुल 799 में से
संदर्भ में पढ़ेंवरागिरिजतुव्योषैः शृङ्गवेररसभावितैः ।
मृतः सूतो हरेत्सत्यं प्रमेहान् सकलानपि ॥ ६६ ॥
मूर्वास्वरससंयुक्तो मृतः सूतोऽतिदारुणाम् ।
मसूरिकां निहन्त्येव लेपनाद् भक्षणादपि ॥ ६७ ॥
कन्यामूलरसेनाथ तण्डुलीयजलेन वा ।
मृतः सूतो द्रुतं हन्याद् विषं स्थावरजंगमम् ॥६८॥
तण्डुलोदकसंयुक्तो यथाविधि मृतो रसः ।
नस्ये पाने विशेषेण विषार्तस्य प्रशस्यते ॥६९॥
गोपुरीषसलिलेन भावयेत् सप्तधेह घनसारमुत्तमम् ।
तद्युतः खलु मृतो रसेश्वरः स्थावरादिविषभेदनाशनः ॥७०॥
नृमूत्रपिष्टेन पुनर्नवायाः बीजेन मूलेन रसान्वितेन ।
मृतो रसेशः खलु लेपनेन विषं सदा वृश्चिकजं निहन्ति ॥७१॥
वन्ध्याकर्कोटकामूलफलेनापि समन्वितः ।
सूतः सुदारुणं हन्ति विषं स्थावरजंगमम् ॥७२॥
कपित्थफलसंयुतोऽथ खलु देवदालीयतः
सधूममदनोऽथवा तु शरपुङ्खबीजान्वितः ।
मृतः खलु रसेश्वरो ह्यविरतं प्रलेपादिना
निहन्ति भृशदारुणां प्रमदमूषिकाणां विषम् ॥७३॥
नागिनीरसपिष्टेन नागरेणोह कांस्यके
समन्वितो रसो हन्याद् वृश्चिकार्ति सुदारुणाम् ॥७४॥
“रसायनं त्रिदोषघ्नी योगवाह्यतिशुक्रलः। भस्मसूतोऽखिलातङ्कनाशनस्त्वनु-
पानतः ॥” इति हि प्राञ्च आहुः, तस्मादनुपानविशेषानुदाहरति दिङ्मात्रम् ।
पांशुरिति-पांशुः पर्पटम्, सुरसा तुलसी, सिंहिका बृहती, क्षीरवृक्षा न्यग्रोधोदुम्बरा-
श्वत्थप्लक्षकवेतसपादपाः, पञ्चपल्लवं आम्रजम्बूकपित्थबीजपूरबिल्वानां पत्राणि,
रसालः आम्रः, कणा पिप्पली, जलं वालकम् , वैदेही पिप्पली, शम्बूकः
क्षुद्रशङ्खस्तस्य क्षारं भस्मेति यावत् , कटुः कटुकी, तिक्तकं पटोलं निम्बो वा,
कटुतिक्तकं वा भूनिम्बः, विश्वं शुण्ठी, त्रिपुटीफलतैलं एरण्डस्य तैलम् , पुरकः
गुग्गुलः, समीरशोणितं वातरक्तम्, रुबूकः एरण्डः, शशाङ्कलेखा सोमराजी,
मार्कवो भृङ्गराज, किलासं श्वित्रम् । कृमिघ्नो विडङ्गः, त्रिपर्णा पलाशस्तस्य
बीजानि ग्राह्याणि, माक्षिकं मधु । वीरवृक्षो भल्लातकः, वरी शतावरी, मोचामूलं