सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 202, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 202

सव्योषेण तिलक्वाथेनामशूलं व्यपोहति ।
शम्बूकक्षारसहितः पक्तिशूलनिबर्हणः ॥५१॥
मूत्रयुतः कटुतिक्तकविश्वक्वाथयुतो हरतीह हि शोफम् ।
दारुनिशात्रिफलाक्वथिताढ्यः कामलिनां खलु मङ्गलकारी ॥५२॥
नवोद्धतस्नुहीक्षारद्रवभावितया भृशम् ।
हरीतक्या युतः सूतो जठरामयनाशनः । ५३॥
त्रिकटुत्रिफलामरिचप्रथितत्रिपुटीफलतैलयुतः पुरकः ।
मृतसूतयुतो नियतं त्वचिरात् चिरजां विनिहन्ति हि तुन्दिलताम् ॥५४॥
रसोनसिद्धेन तिलोद्भवेन तैलेन सार्द्धन्तु रसो निपीतः ।
वातोद्भवानत्र बहून् विकारान् निहन्ति घोरानपि वा चिरोत्थान् ॥५५॥
हरीतकी गुडूचिका जलं गुडः समं समम् ।
विचूर्णितेन योजितो हरेत्समीरशोणितम् ॥५६॥
विश्वभेषजरुबूकसंस्कृतः क्षीरकेण विनियोजितो रसः ।
गृध्रसीं हरति दीर्घकालजामन्धकारपटलीं यथा रविः ॥५७॥
शशाङ्कलेखया तथा फलत्रिकेण संयुतः ।
समार्कवो मृतो रसो निहन्ति वै किलासकम् ॥५८॥
कृमिघ्ननिम्बदाडिमत्रिपर्णचूर्णसंयुतः ।
समाक्षिकस्तु पारदो मृतो हरेत्कृमीन् द्रुतम् ॥५९॥
राजिकानलरसोननीलिकाभृङ्गराजमृदुपल्लवैः समम् ।
वीरवृक्षफलसंयुतं पचेत्तैलमत्र पयसा समन्वितम् ॥६०॥
अनेन तैलेन युतो रसेशः कुष्ठान्यशेषाणि निहन्ति शीघ्रम् ।
यथा मृगेन्द्रो वनमध्यचारी मृगानुपैतानिह निर्विशङ्कः ॥६१॥
वरोबलावाजिगन्धामोचामूलकषायकैः
रसेश्वरो हरेत्कार्श्यं मासद्वयनिषेवितः ॥६२॥
सौवर्चलत्र्यूषणहिङ्गुमूत्रैर्विपाचितेनेह घृतेन युक्तः ।
रसेश्वरः सप्तदिनप्रयोगात् सर्वानपस्मारकफान्निहन्ति ॥६३॥
मधूकपारावतविड्-युतेन मनःशिलायाः खलु चूर्णकेन ।
रसाऽञ्जनाद्दारुणलक्षणान्यानुन्मादरोगान्विनिहन्ति शीघ्रम् ॥६४॥
मृतं रसेशं मधुना विलिह्य क्षौद्रान्वितं कोष्णजलं पिबेद्यः ।
स्थौल्यात्तु मेदःप्रभवान्नितान्तं चिरोत्थिताञ्चापि विमुच्यतेऽसौ ॥६५॥