रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 189, कुल 799 में से
संदर्भ में पढ़ेंकी आयु के बालक को रससिन्दूर आधी रत्ती की मात्रा में देना चाहिये ।
अधिक आयुवाले मनुष्यों के लिए इसकी पूर्ण मात्रा एक रत्ती की समझनी
चाहिये ॥ २३५-२३७ ॥
मकरध्वजस्य निर्माणप्रकारः
स्वर्णं तोलकसंमितं मृदुदलं युक्त्या विशुद्धीकृतं
स्वर्णादष्टगुणोन्मितं रसवरं जीर्णाच्छसौगन्धिकम् ।
संस्कारैर्बहुभिर्विशोधितमथो सम्मेल्य सम्पेषयेत्
गन्धं षोडशतोलकं सुविमलं कुर्यात्ततः कज्जलीम् ॥२३८॥
शोणैः कार्पासपुष्पैरथ मृदुविशदाङ्कोटमूलत्वचाद्भिः
कन्यानीरैश्च घस्रं रसविधिचतुरो भावयेदामयज्ञः ।
सम्यक्पिष्टं सुशुष्कं त्वपि च रसवरं काचकूप्यां निदध्याद्
बिल्वादीनाञ्च काष्ठैः सलिलविरहितैस्तापयेच्चाथ विद्वान् ॥२३६
पूर्वं यामद्वयं प्राज्ञः पचेन्मृद्वग्निना रसम् ।
मध्यमानलयोगाच्च ततो यामद्वयं पचेत् ॥२४०॥
प्रखरेणानलेनाथ पचेद्यामद्वयं भिषक् ।
अवशिष्टद्वियामञ्च पुनस्तीव्राग्निना पचेत् ॥२४१॥
यन्त्रे सिकतसंज्ञे च स्वाङ्गशीतमथोद्धरेत् ।
काचकूपीं विभिद्याथ सहकारसमप्रभम् ॥२४२॥
भङ्गेरक्तप्रतीकाशं पिष्टे रक्तोत्पलोपमम् ।
सौवर्णं मूर्च्छितं सूतं गृह्णीयाद्भिषजां वरः ॥२४३॥
नानेन जायते यस्मान्मकरध्वजसन्निभः ।
रसज्ञैः ख्यापितस्तस्मान्नाम्नायं मकरध्वजः ॥२४४॥
अथ मकरध्वजनिर्माणप्रकारः । स्वर्णमिति—मृदुदलं अत्यन्तमृदुदलमिति
भावः । यथा पारदे सम्यङ्मेलनं स्यात् तथा पक्वं सत् स्थूलकणं नावशिष्यते
इत्यभिप्रायः । युक्त्या शोधनं स्वर्णप्रकरणे वक्ष्यते । जीर्णाच्छसौगन्धिकं कच्छप-
यन्त्रादिना जातगन्धकजारणम् । संस्कारैर्बहुभिः पूर्वोक्तैरष्टाभिरधिकैर्वा यथा-
सम्प्रदायम् । शोणैः रक्तैः, घस्रम् दिवसमेकम् । बिल्वादीनाञ्च काष्ठैरिति
विल्वादिकाष्ठग्रहणं समुचितापादनाय सलिलविरहितैरिति सुशुष्कैः, अवशिष्ट-
द्वियामं पाकस्तीव्रानलेन, जीर्णगन्धकाचकूपीमुखमुद्रणोत्तरमिति द्योत्यते पुनः
शब्देन । सिकतायन्त्रं बालुकायन्त्रं पूर्वोक्तम् । इदञ्च बहिर्धूमजारणप्रकारा-
भिप्रायेण अन्तर्धूमजारणायै तु बालुकायन्त्रप्रकारान्तरं पूर्वमवोचाम । अधःसैकत-