रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 184, कुल 799 में से
संदर्भ में पढ़ें१४४ रसतरंगिणी
मेहे गुडूचीस्वरसेन दद्यात् योषित्प्रियामूलजतोयकैर्वा ।
असृग्दरेऽशोकबलादिकानां क्वाथेन सिन्दूररसः प्रयोज्यः ॥२०५॥
बालाभयायाः क्वाथेन बुधोऽर्शसि नियोजयेत् ।
वचारसेन तच्चूर्णं वापस्मारे प्रयुज्यते ॥ २०६ ॥
कूष्माण्डस्वरसेनेह दद्यादुन्मादसंज्ञके ।
श्वासे विभीतकक्वाथैर्वासायाः स्वरसेन वा ॥२०७॥
कामलायां बुधो दद्यात् दार्वीक्वाथेन संयुक्तम् ।
पांडुरोगे प्रयुञ्जीत रसज्ञो लोहभस्मना ॥२०८॥
सितोपला च सूक्ष्मैला शिलाजञ्च समं समम् ।
एतत्त्रितयचूर्णेन मूत्रकृच्छ्रकुलान्तकः ॥२०९॥
अजीर्णे मधुना वापि मुस्तकक्वाथजैर्द्रवैः ।
शूले वैद्यवरो दद्यात् त्रिफलाक्वाथसंयुक्तम् ॥२१०॥
कणाचूर्णयुतः सूतः प्रदद्यात् रक्तिकोन्मितः ।
सेवितो नाशयेन्मूर्च्छां पथ्यं तोयावगाहनम् ॥२११॥
वमने बृहदेलायाः क्वाथेन मधुनापि वा ।
शोथे पुनर्नवायास्तु कषायेण प्रयोजयेत् ॥२१२॥
गुडूचीनिम्बखदिरपुरुहूतफलद्रवैः ।
क्वाथैर्वा संयुतश्चन्द्रचातुर्जातकमिश्रितः ॥२१३॥
रससिन्दूरसंज्ञोऽयं प्रयुक्तो रक्तिकोन्मितः ।
विस्फोटं दारुणं हन्याद्यथा सूर्यस्तमस्ततिम् ॥२१४॥
काकोली चूर्णसंयुक्तं नारिकेलोत्थतैलयुग् ।
सेवितं रससिन्दूरं हरेद्रोगं जरायुजम् ॥२१५॥
मृतवंगसमायुक्तो रसः सिन्दूरसंज्ञकः ।
क्षौद्रेण भक्षितो हन्ति प्रमेहं त्वतिकालजम् ॥२१६॥
सक्षौद्रैस्त्र्यूषणोपेतैर्धान्यजीरकनागरैः ।
सेवितो रससिन्दूरो वान्तिं जयति दारुणाम् ॥२१७॥
ब्राह्मीवचाशङ्खपुष्पीकुष्ठैलाक्वाथसंयुक्तम् ।
रक्तिकाद्वितयं खादेदपस्मारहरं परम् ॥२१८॥
धात्रीवयस्याकलिपादपानां क्वाथेन वा जन्तुरिपोः समेतः ।
नित्यं तु सिन्दूररसो रसज्ञैः भगन्दरेऽयं विनियोजनीयः॥२१९॥