रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 166, कुल 799 में से
संदर्भ में पढ़ें१२४ रसतरङ्गिणी
रसकर्पूरद्रवस्य प्रयोगः
फिरङ्गजानां स्फोटानां व्रणानां विविधात्मनाम् ।
क्षालनार्थं विशेषेण सहस्रगुणिताम्भसा ॥ १०३ ॥
व्रणेषु तु चिरोत्थेषु द्विसहस्रगुणाम्भसा ।
कृतं द्रवं प्रयुञ्जीत शल्यतन्त्ररहस्यवित् ॥ १०४ ॥
हस्तपादादिकाङ्गानां गेहादीनाञ्च धावने ।
कृतं द्रवं प्रयुञ्जीत सहस्रगुणिताम्भसा ॥ १०५ ॥
योन्यादिकोमलाइ्गानां क्षालनार्थं प्रयोजयेत् ।
सहस्रपञ्चकगुणनीरनिष्पादितं द्रवम् ॥ १०६ ॥
अथास्य प्रयोगक्रमः—फिरङ्गजस्फोटानां तथा नानाकृतीनां नवीनदुष्टव्रणानां
क्षालनाय सहस्रगुणजलद्रवयोगः पुरातनव्रणक्षालनाय च दशसहस्रगुणजल-
द्रवः । हस्तपादादिशरीराङ्गानां तथा जीवाणुजुष्टवस्त्रादीनां क्षालने सहस्रगुण-
जलद्रवः । योन्यादिकोमलांगक्षालनाय पञ्चसहस्रगुणजलद्रवः । उपलक्षणञ्चैतद्
योग्यतावोधाय ॥ १०३-१०६ ॥
फिरंग व्रण तथा अनेक प्रकार के नवीन दुष्टव्रणों को साफ करने के लिये
विशेष रूप से एक और हजार के अनुगत का द्रव काम आता है। शल्यतन्त्र-
वेत्ता वैद्य को चिरकालीन व्रणों के लिये एक और दो हजार की शक्ति का
रसकर्पूर द्रव प्रयोग करना चाहिये । हाथ पैर आदि अंगों तथा घर धोने के
लिये एक और एक हजार शक्ति का द्रव उपयोग में लाना चाहिये । योनि,
गर्भाशय, नेत्र आदि कोमल अंगों के धोने के लिये इसको पाँच हजार गुणा
जल मिलाकर प्रयोग करना चाहिये ॥ १०३-१०६ ॥
अथ कज्जलिकायाः स्वरूपम्
अर्द्धसमानद्विगुणमिताद्या गन्धकचूर्णात् पारदकस्य ।
मर्द्दनजन्या मसृणकाया कज्जलरूपा कज्जलिका सा ॥१०७॥
कज्जलिकायाः प्रयोगेषु विधानम्
योगेषु यत्र निर्दिष्टौ समौ गन्धकपार्दौ ।
तन्मानां कज्जलीं यत्र योजयेद्भिषजां वरः ॥ १०८ ॥
उक्ते पारदमात्रे तु प्रयोगेषु सुनिश्चितम् ।
योजयेद्रससिन्दूरं रसतन्त्रविशारदः ॥ १०९ ॥