सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 55, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 55

द्वितीयः पटलः । ३१
तत्सोऽहं परं सत्यं¹ व्योमस्थायि परात्परम्² ।
शून्यं शून्यं पुनः³ शून्यं त्रिशून्यञ्च⁴ निरामयम् ॥ ११४ ॥
नभश्च गगनं व्योम खमाकाशं⁵ च केवलम् ।
निष्कलं निर्मलं नित्यं निस्तरङ्गं निरामयम् ॥ ११५ ॥
निष्प्रपञ्चं⁶ निराधारं निर्गुणं गुणगोचरम्⁷ ।
एवंरूपं सदा ध्यायेत् स्वदेहे रसभैरवम् ॥ ११६ ॥
यदा च निश्चलं⁸ ध्यायेत् यदा च निश्चलं⁹ मनः ।
वह्निमध्ये तदा¹⁰ सूतो बध्यते निश्चलस्तथा¹¹ ॥ ११७ ॥
यदा च¹² चलति ध्यानं रसो वह्नौ न तिष्ठति ॥ ११८ ॥
मण्डलस्य बहिः¹³ रात्रौ सुरामत्स्यामिषादिभिः ।
भक्षयेद्¹⁴यक्षगन्धर्व्वान् पिशाचान् राक्षसांस्तथा ॥ ११९ ॥


(1) B reads तस्थोऽहं. K reads तु पदं शून्यं. M reads तु परं सत्यं.
(2) B has व्योमव्यापि परापरं. व्योमव्यापीच तत्परम्, a variant in M, which is
erroneous. (3) K reads पर. (4) B reads विशून्यञ्च. (5) खप्रकारं,
a variant in K. [This repetition expresses the intensity of essence
of God, who is compared with nothing but the sky] (6) K
reads निःप्रसङ्गं. (7) नागमन्वगुणचरम्, a variant in M, which has no
clear meaning. (8) K reads त्वनिश्चलं, which is inc. (9) B
reads न चल. K reads तदा च. M reads यदा वै. (10) B reads तथा.
(11) M reads तदा, thus creating a tautology. (12) B and K
read यथा च. M reads यदा स. (13) K reads मंडल स. M reads
मण्डपं कारयेत्. (14) The portion beginning from भक्षयेद् and
ending in बटुकैश्वरम् is wanting in M.