रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 456, कुल 558 में से
संदर्भ में पढ़ेंअष्टादशः पटलः । ४३३
शङ्कत्वचविनिर्मुक्तो¹ जीवितैरेव तिष्ठति² ॥ २१० ॥
बद्धस्यास्य प्रभावेन समावर्त्ती यदा भवेत्³ ।
कोटिवेधि रसं ग्राह्यं पिण्डषट्केन संयुक्तम्⁴ ॥ २११ ॥
एकैकस्य तु मध्यस्थां गुटिकां कारयेद्बुधः ॥ २१२ ॥
गुटिकाः पञ्चसंख्याताः षष्ठी चैव तु पञ्चमी⁵ ।
षट्संगुणितपिण्डं स्यात्⁶ ताम्रपात्रं सुशोभनम् ।
जङ्घ⁷ पुरुषमात्रं तु पुरुषार्धं च⁸ मण्डलम् ।
चतुर्मुखकृतं⁹ काष्ठं तस्योपरि निवेशयेत् ॥ २१३ ॥
सघृतं च महातैलं समभागेन लेपयेत्¹⁰ ।
पूजयित्वा कटाहं तु दिक्पालांश्चैव पूजयेत् ॥ २१४ ॥
कुमारीं पूजयेत् पश्चाद्दद्याद्दिक्षु बलिं¹¹ तथा ।
धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः ॥ २१५ ॥
सुतप्तं च विधातव्यं¹² निर्धूमं च यदा भवेत्¹³ ।
(1) D has सुखत्वं च विनिर्मुक्तो, which is senseless. K has षंडत्वं च
विनिर्मुक्तो, which is also absurd. (2) जीवेच्च शरदां शतं, a variant in
D, which is quite opposite in meaning. जीवशेषेऽवतिष्ठते, a variant in D.
(3) D reads मुखमध्ये प्रदापयेत्. (4) पिण्डषट्कोषसंस्थितः, a variant in
D and K. (5) B reads षष्ठं चैव च पञ्चमम्. D reads षष्टांशं पञ्चमं.
K reads षष्टां चैव तु पंचमं. (6) B reads पिण्डस्या. D reads पिंडे स्यात्.
(7) B reads चर्ध्वे. (8) B has पुरुषार्धेन. (9) B reads चतुर्मुखे
कृतं. (10) D reads मेलयेत्. (11) D reads दद्यादहं. K reads
बलीं. (12) सृतं तद्य विधानं तु, a variant in D. सूतं तस्य विधानं तु, a variant
in K. (13) रक्तवर्णं भवेद्यदा, a variant in D. K reads यदा भवेत्.