सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 437, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 437

४१४ रसार्णवे
तारं ताम्रं व्योमसत्त्वं कान्तसत्त्वं चतुर्थकम् ।
एकैकं द्वादशांशाः स्युः सर्व्वमेकत्र कारयेत् ॥ ८८ ॥
अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ।
द्वाविंशन्मिलतः खोटान् सूक्ष्मचूर्णं तु कारयेत् ॥ ८९ ॥
तत् खोटसूक्ष्मचूर्णं तु चारोटरससंयुक्तम् ।
मर्दयेत्सव्यमार्गेण गोलको भवति क्षणात् ॥ ९० ॥
गोलकस्य पले द्वे च मृतकान्तस्य तत्समम् ।
एकोक्त्याथ संमर्द्य मेघनादरसेन च ।
मुनिपुष्परसेनैव दिनमेकं च मर्दयेत् ॥ ९१ ॥
गुटिकाः¹ कारयेद्देवि षडधिकशतत्रयम्² ॥ ९२ ॥
तत्रैकां गुटिकां सर्पिस्त्रिफलामधुसंयुताम् ।
भक्षयेद्वर्षमेकं तु ब्रह्मायुर्जायते नरः ॥ ९३ ॥
सर्व्वास्ता भक्षयेत् पश्चात् रुद्रायुः स भवेन्नरः³ ॥ ९४ ॥
अथैका धारिता वक्त्रे⁴ गुटिकामरसुन्दरि ।
हठाद्रोगाणि कृच्छ्राणि⁵ पलितानि च नाशयेत् ॥ ९५ ॥
उपचारं प्रवक्ष्यामि वज्रसत्त्वरसायने⁶ ॥ ९६ ॥
वज्रवन्नस्तु यो⁷ देवि रसोऽयं वज्रतां नयेत् ।
(१) B reads गुटिकां. (२) B reads सड्सकम्. (३) This
hemistich is not found in D and K. (४) घटिकां धारिते वक्त्र, an incor-
rect variant in B. This hemistich is not found in K. (५) रोगाणि
is grammatically incorrect. [रोगान् is the correct term]. (६) वज्र-
भक्षरसायनं, a variant in B. वज्रात् सत्वं रजायते, a variant in D. (७)
D reads erroneously वज्रस्यसधो.