सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 428, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 428

अष्टादशः पटलः । ४०५
यत्र¹ मूत्रपुरीषं तु साधकस्तु परित्यजेत्² ।
पाषाणो मृन्मयं तत्र सृष्टं भवति काञ्चनम्³ ॥ २८ ॥
प्रस्वेदस्रस्र⁴ गात्रस्य लोहान्यष्टौ च वेधयेत् ।
तत् सर्व्वं कनकं नित्यं⁵ भक्षिते द्वादशे⁶ पले ।
वज्रतुल्यो महादेवि अजरामरकारिणि⁷ ॥ २६ ॥
भस्मसूतं तथा तारं⁸ भक्षयेत् षोडशं पलम्⁹ ।
अथवा तारजीर्णे तु भक्षयेद्भस्मसूतकम् ।
शुक्लञ्च वङ्गघोषं च¹⁰ तत्स्वेदात् तारतां व्रजेत् ॥ ३० ॥
अथवा¹¹ तीक्ष्णजीर्णे तु भक्षयेद्भस्मसूतकम् ।
मूत्रेण तस्य सृष्टं तु वङ्गं व्रजति¹² तारताम् ॥ ३१ ॥
एतैकेन निषेकेण¹³ स्तम्भनं नागवङ्गयोः¹⁴ ॥ ३२ ॥
गुञ्जामाचं¹⁵ रसं देवि हेमजीर्णं तु भक्षयेत् ।
(1) D and K read यस्य, which seems to be incorrect. (2) D
has साधकस्य प्रयोजयेत्. (3) This hemistich is not found in K. (4)
D reads प्रचेपाद्वाह्य. (5) D reads नीला. (6) प्रक्षिपेद्वादशे, a variant
in D. (7) K reads अजरामरकारकं. (8) This hemistich is not
found in D. (9) B reads षोडशे पले, which is grammatically
incorrect. This hemistich is not found in D. (10) This hemistich
and the next one are not found in B. D reads शुक्लीवचं वङ्गघोषै. K reads
शूलीचं. (11) D reads अन्यया. (12) B and D read भवति,
which is incorrect. [व्रजति is the correct reading.] (13) D reads
विषेचेन. K reads विक्षेपेण. Both are incorrect. (14) B reads
यस्रवंगयोः. D reads समनं. (15) B reads गुञ्जाताम्रं [मानं].