रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 410, कुल 558 में से
संदर्भ में पढ़ेंसप्तदशः पटलः । ३८७
पञ्चमांशेन मिश्रं तत्¹ तारं तालं च वेधयेत्² ।
तत्तालं³ मेलयेत्तारे द्रुतं सिक्तेन⁴ तेधयेत् ॥ ९१ ॥
रससैन्धवमेकैकं तिलसञ्जीं⁵ द्वयं द्वयम् ।
टङ्कणैकं कनकरसे⁶ मर्दयेद्दिवसत्रयम् ॥ ९२ ॥
तेन लिप्तं ताम्रपत्रं⁷ धमेदावर्त्तितं⁸ पुनः ।
इङ्गुदं सतालमूलं⁹ दध्यम्लेन तु पेषयेत् ॥ ९३ ॥
तन्मध्ये ढालयेच्छुल्वं सप्तवारं¹⁰ दलं भवेत् ।
तृतीयांशेन वौजस्य मेलयेत् परमेम्बरि¹¹ ॥ ९४ ॥
लाङ्गली चित्रको दन्ती ह्यग्नोत्तरवारुणी¹² ।
गोधावती वज्रवल्ली¹³ श्वेताऽर्कः शक्रवारुणी¹⁴ ॥ ९५ ॥
(1) पञ्चमांसे घनं तारं, a variant in D. K has only पंचमांशेन घन.
(2) तारवङ्गं तु वेधयेत्, a variant in B. तार तालं च बन्धयेत्, a variant in D.
K has तारं वङ्गं च वैधयेत्, (3) B has तहुलि. D has तप्तारं. (4)
B reads हुता सिक्तेन. D reads घृत सिक्तेन. Both are incorrect. (5)
B reads सिलासञ्जिं. (6) D reads कनकं रसे, which is incorrect. (7)
B has ताम्रं पलं. D has ताम्रपात्रं. Both are incorrect. (8) D reads
धमेद्याचितितं, which has no clear sense. (9) इङ्गुदीमूलतालमूलं, a
variant in B. इङ्गुदीसजतालमूलं, a variant in D. इंगुदिसमतामूलं, a variant
in K. (10) K reads शतवारं. (11) D has only परमेम्बरि
out of this hemistich. (12) D reads इद्युतत्वरुणो, which is incor-
rect. (13) B reads गोधापती, which is not correct. D has गन्ध-
वज्रवल्ली च, K has गोधावर्ती वल्लो. Both are incorrect and incomplete.
(14) B reads शतवारुणी. D reads खेताकं, which is incorrect.