रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 354, कुल 558 में से
संदर्भ में पढ़ेंपञ्चदशः पटलः । ३३१
चतुःपले तु रुद्रत्व-मीशः¹ पञ्चपले भवेत् ॥ ८१ ॥
षट्पले भक्षिते देवि सदाशिवतनुर्भवेत् ॥ ८२ ॥
सूतकं गन्धकं तारं² मेषवल्लीरसेन च³ ।
त्रिदिनं मर्दयेत्तीक्ष्णं⁴ वङ्गपादेन मेलयेत्⁵ ।
अन्धमूषागतं ध्मातं वङ्गं स्तम्भयति क्षणात् ॥ ८३ ॥
चूर्णितं गन्धकं देवि मर्कटी⁶रसभावितम् ।
भावयेच्छतवारांस्तु जीव⁷भस्म तु गच्छति ॥ ८४ ॥
दीपयेन्मृन्मये⁸ पात्रे रसेन सह संयुक्तम् ।
तापयेद्रवितापेन मर्कटी⁹रससंयुक्तम् ।¹⁰
गन्धकं ग्रसते सूतः¹¹ पिष्टिका¹² भवति क्षणात् ॥ ८५ ॥
तिलपर्णी¹³रसेनेव गन्धकं भावयेत् प्रिये ।
सप्त वारांस्तु देवेशि छायाशुष्कं पुनः पुनः ॥ ८६ ॥
शोधितं पातितं सूतं पलैकप्रमितं¹⁴ प्रिये ।
(1) All the texts read ईशः , but ईश is proper. (2) M reads
कान्तं. (3) मेषवल्लीरसे समाः, a variant in B. अष्टवल्लीरसेन च, a variant
in K. मेषवल्लीरसैस्सह, a variant in M. मेषवल्लीरसे समाः, a variant in My.
(4) M and My read मर्दयेत्तीक्ष्ण. (5) वंकपत्रेषु लेपयेत्, a variant
in M. वंगपादेन लेपयेत्, a variant in My (6) My reads कर्कोटी.
(7) My reads बीज. (8) B and My have दापयेन्मृन्मये. M has
तापयेन्मृन्मये. (9) My reads कर्कोटी. (10) This hemistich is