रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 353, कुल 558 में से
संदर्भ में पढ़ें३३० रसार्णवे
द्विपदौरजसा युक्तं मर्दयेत् टङ्कणान्वितम् ॥ ७५ ॥
चन्द्रार्कषोडशांशेन¹ विद्धं भवति काञ्चनम् ।
हेमार्थं मिलितं तन्तु² मातृकासमतां³ व्रजेत् ॥ ७६ ॥
कुर्यात् संकलिकायोगात्⁴ वेधं⁵ दशगुणोत्तरम् ।
यथा हेम्नि तथा तारेऽप्यादिवीजानि योजयेत्⁶ ॥ ७७ ॥
तृतीयसंकलाबन्धं⁷ षट्शतांशेन वेधयेत्⁸ ।
चतुर्गुणेन तेनैव सहस्रांशेन काञ्चनम् ॥ ७८ ॥
अनेन क्रमयोगेण सप्त संकलिका यदि ।
कुरुते काञ्चनं दिव्यमष्टौ लोहानि सुन्दरि⁹ ॥ ७९ ॥
तं पुनश्चूर्णयित्वा तु¹⁰ पुटेद्भस्म प्रजायते¹¹ ।
सर्व्वव्याधिहरो देवि¹² पलैके तस्य भक्षिते ॥ ८० ॥
द्विपले¹³ ब्राह्ममायुष्यं¹⁴ त्रिपले¹⁵ वैष्णवं भवेत् ।
(1) M and My read चन्द्रार्कं षोडशांशेन. (2) M reads हेमार्थ्यं,
which appears to be incorrect. My reads तं तु. (3) M has मात्रका,
which has no clear sense. (4) मण्डलिकायोगात् is the variant in M.
(5) M reads वेध्यं. (6) स्याद्वीजानि योजयेत्, an incomplete charaṇa
in K. ऽप्यादिवीजेन योजितम्, a variant in M. My reads व्याधिवीजानि
योजित. (7) तृतीयमण्डलावस्थं, a variant in M. (8) षट्शते नाग-
वेधकं, a variant in K and My, which is partly incorrect. (9) M
reads विध्यति. (10) B wants तु. (11) Both B and M read
पुटयेद्भस्म जायते. My reads स्फोटयेद्भस्म जायते. (12) My reads सर्व्व-
व्याधि हरेद्देवि, which is incorrect. (13) K reads द्विपलं. My reads
द्वेपलं, which is incorrect. (14) B and My read ब्रह्ममायुष्यं. K reads
ब्रह्म चायुष्यं (15) K reads त्रिपलं. My reads त्रिदग्धे, which is incorrect.