रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
DevanagariHindipublished558 पृष्ठ
पृष्ठ 304, कुल 558 में से
संदर्भ में पढ़ेंपृष्ठ 304
चतुर्द्दशः पटलः ।
श्रीभैरव उवाच ।¹
पुनरन्यं प्रवक्ष्यामि वज्रबन्धं सुरेश्वरि² ॥ १ ॥
गन्धकं भक्षयेन्नारी दिनानामेकविंशतिम्³ ।
तद्रजो⁴ रसराजस्य बन्धने जारणे हितम् ॥ २ ॥
वज्रभस्म⁵ तु भागैकं भागाः शुद्धरसास्त्रयः⁶ ।
द्विपदी⁷रजसामर्घं यावत्तत् कल्कतां गतम् ॥ ३ ॥
पादांशेन सुवर्णस्य पत्रलेपं तु कारयेत् ॥ ४ ॥
व्योमवल्लीरसं कान्तं टङ्कणं च सुचूर्णितम्⁸ ।
अभ्रकमष्टमांशेन⁹ खल्ले कृत्वा विमर्दयेत्¹⁰ ॥ ५ ॥
नष्टपिष्टं चतुष्कं त¹¹द्दग्धयित्वा¹² पुटेत्ततः ।
अन्धमूषागतं स्नातं क्रामणेन समन्वितम् ।
(1) B reads श्रीपार्वत्युवाच, which is inconsistent, as in the following
śloka the god Bhairava addresses her. (2) B has सुरार्चि